________________
श्री वर्द्धमान जिन देशना ॥८६॥
पंश्चमव्रतमहिमा॥
柴聯聯端帶柴柴聯聚类器能继器晓晓聯華號柴柴柴柴柴卡器
मुष्णन्ति विषयस्तेनादहति स्मरपावकः । रुन्धन्ति वनिताव्याधाः, सङ्गैरङ्गीकृतं नरम् ॥ १११॥
उ०-तृष्णा खनिरगाधेय, दुष्परा केन पूर्यते । या महद्भिरपि क्षिप्तः, पूरणैरेव खन्यते । १॥ तृप्तो न पुत्रैः सगरः, कुचिकों न गोधनः । न धान्यस्तिलक श्रेष्ठी, न नन्दः कनकोत्करैः॥११२॥ तपःश्रुतपरीवारां, शमसाम्राज्यसंपदम् । परिग्रहग्रहग्रस्ता-स्त्यजेयुर्योगिनोऽपि हि ॥११३॥ असन्तोषवतः सौख्यं, न शक्रस्य न चक्रिणः। जन्तोः सन्तोषभाजो य-दभयस्येव जायते ॥११४॥ सन्निधौ निधयस्तस्य, कामगव्यनुगामिनी । अमराः किरायन्ते, सन्तोषो यस्य भूषणम् ॥११५॥ आ०-धनं धान्यं स्वर्णरूप्य-कुप्यानि क्षेत्रवास्तूनि । द्विपाच्चतुष्पाच्चेति स्यु-नव बाह्याः परिग्रहाः ॥१॥
रागद्वेषौ कषायाः शुग-हासौ रत्यरती भयम् । जुगुप्सा वेदमिथ्यात्वे, आन्तराः स्युश्चतुर्दश ॥२॥ बाह्यात् परिग्रहात्प्रायः, प्रकुप्यन्त्यान्तरा अपि । प्रावृषो मूषिकालर्क-विषजोपद्रवा इव ॥३॥ प्राप्तप्रतिष्ठानपि च, वैराग्यादिमहाद्रमान् । उन्मूलयति निर्मूलं, परिग्रहमहाबलः ॥४॥ परिग्रहनिषण्णोऽपि, योऽपवर्ग विमार्गति । लोहोडपनिविष्टोऽसौ, पारावारं तितीर्षति ॥५॥ बाह्याः परिग्रहाः पुंसां, धर्मस्य ध्वंसहेतवः । तज्जन्मानोऽपि जायन्ते, समिधामिव वह्नयः ॥६॥ बाह्यानपि हि यः सङ्गा-न्न नियन्त्रयितुं क्षमः । जयेत् क्लीवः कथं सोऽन्तः परिग्रहचमूममूम् ॥७॥ क्रीडोद्यानमविद्यानां, वारिधिर्व्यसनार्णसाम् । कन्दस्तृष्णामहावल्ले-रेक एव परिग्रहः ॥८॥
弟继梯染带染強聯聯聯柴柴柴柴柴柴柴柴张晓晓晓晓张聯合柴柴柴
॥८६॥