________________
श्री बर्द्धमान जिन देशना ॥८५॥
पञ्चमव्रत महिमा।
強強晓晓晓晓端端端端端端端端端聽端端端端端端端端器路端端
॥ अथ पञ्चमव्रतम् ॥ [असन्तोषमविश्वासमारम्भं दुःखकारणम् । मत्वा मूर्छाफलं कुर्यात्-परिग्रहनियन्त्रणम् ॥१६॥ उ०-असन्तोषवतां पुंसा-मपमानः पदे पदे । सन्तोषैश्वर्यमुखिनां, दूरे दुर्जनभूमयः ॥१॥
अपरिग्रह एव भवेद्वस्त्रा-भरणाद्यलङ्कृतोऽपि पुमान् । ममकारविरहितः सति, ममकारे सङ्गवान्ननः ॥ २ ॥ ग्रामं गेहं च विशन् , कर्म च नोकर्म चाददानोऽपि । अपरिग्रहोऽममत्वोऽपरिग्रहो नान्यथा कश्चित् ॥३॥ १ पि वत्थं व पायं वा, कंबलं पायपुंछणं । तं पि संजमलजट्ठा, धारंति परिहरति अ॥ ४ ॥
२न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो, इइ वुत्तं महेसिणा ॥ ५॥ परिग्रहमहत्याद्धि, मज्जत्येव भवाम्बुधौ। महापोत इव प्राणी, त्यजेत्तस्मात् परिग्रहं ॥१०७॥ त्रसरेणुसमोऽप्यत्र, न गुणः कोऽपि विद्यते । दोषास्तु पर्वतस्थूलाः, प्रादुष्षन्ति परिग्रहे ॥१०८॥ उ०-धर्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दुरादस्पर्शनं वरम् ॥१॥ सहादभवन्त्यसन्तोऽपि, रागद्वेषादयो द्विषः । मुनेरपि चलेच्चेतो-यत्तेनान्दोलितात्मनः ॥ १०९॥ संसारमूलमारम्भा-स्तेषां हेतुः परिग्रहः । तस्मादुपासकः कुर्या-दल्पमल्पं परिग्रहम् ॥११॥
। यदपि वस्त्रं वा पात्रं वा. कम्बलं वा पादप्रोञ्छनम् । तदपि सयमलज्जाथै, धारयन्ति परिभुञ्जते च ।। (२) न स परिग्रह उक्तः, ज्ञातपुत्रेण तायिना। मूर्छा परिग्रह उक्तः, इत्युक्तं महर्षिणा ।
॥८५॥