________________
श्री बर्द्धमान जिन देशना
श्रीमरराव| ती कथा॥
॥८२॥
अथ तेन पुरुषेण तस्यै प्रोक्तं 'हे भद्रे ! वैताट्यपर्वते मणिपुरे नगरे यो मणिचूडाभिधो विद्याधरो राजा राज्यं करोति सोऽहमस्मि, एकदा मया निशायां नगरमध्ये भ्रमताऽयं लोकः कस्यचिन्मुखात्पठयमानः श्रुतः, तद्यथासर्वत्र वायसाः कृष्णाः, सर्वत्र हरिताः शुकाः ॥ सर्वत्र सुखिना सौख्य, दुःख सर्वत्र दुःखिनां ॥१॥
एतत् श्लोकपरीक्षार्थमहमस्मिन्नगरे समागत्य विद्याबलेन च कुष्टिरूपं विधाय यावच्चतुष्पथे उपविष्टस्तावद्राजपुरुषैरागत्य नृपपार्श्वऽहं नीतः, त्वया च झटिति मे पाणिग्रहणं कृतं, परं तत्परमर्थमहं न जानामि, एषा च तव दुःखजननी मया परीक्षा कृता, परं त्वं वातेन मेरुचूलावत् शीलान्मनागपि न चलिता, अतो हे भद्रे ! त्वं धन्या श्लाघनीया चासि, तव शीलरत्नं व्य. सनकषपट्टे कषितमपि सुवर्णवत्तेजोमयं बभूव. अहमपि धन्यः, कृतार्थं हि मम राज्यं, जीवितं च मे सफलं जातं, येन शील. कलिता त्वं मे भार्या जाता'. तत् श्रुत्वा सा बाला विस्मिता सती मनसि चिन्तयति 'अहो ? एतत्सर्वमाश्चर्यकारकं शीलस्यैव माहात्म्यं दृश्यते. अथ सा राजपुत्री तं प्रत्यवकू हे स्वामिन् ! पूर्वभवे मया यो मनोवचनकायैर्जिनधर्म आराधितस्तस्यैव धर्मप्रभावाचं मे भर्ता जात:'. ____ अथ स खेचरस्तत्र स्वविद्यया सप्तभूमिमण्डितं गृहमकापीत , तत्र तौ दंपती सुखेन स्थितो. इतस्तस्याः शीललक्ष्मीविलोकनार्थमिवोदयाचले दिनकर उदितः. ___ अथ स विद्याधरो निजभार्यों कथयति ' हे भद्रे ! तव जनकमत्र कया रीत्याह्वयामि,' तत् श्रुत्वा तयोक्तं ' हे स्वामिन् ! मम जनकमत्र यूयं हालिकवेषेण समाह्वयत ? येन तस्य दुर्गतिमूलं दो विनाशं प्राप्नुयात्.'
杂陈的聯帶柴柴柴晓柴柴柴聯聯继器柴柴柴柴柴柴柴聯聯端端端樂樂錄影
८२॥