________________
श्री वर्द्धमान जिन देशना ॥८१॥
करुणयाहमत्रागतास्मि, असौ सौभाग्यवान् रूपवान् पुरुषोत्तमश्च मया तव कृते समानीतोऽस्ति, अतस्त्वामेनं पुरुषं भजस्व ? एनं कुष्टिनरं च त्यज ? सकलसुखानां भवनरूपमेनं नरं लब्ध्वा त्वं निजं मनुष्यभवं सफलं कुरु ? युवयोर्मनोवांछित सुखसंपदं चाहं यावञ्जीवं पूरयिष्यामि . '
तत् श्रुत्वा साहसमवलंब्य सा प्रोवाच 'हे मातर्भवत्या ममोपरि महाप्रसादः कृतः परं मम पित्रा पुरजनसमक्षमेतेन कुष्टिना सार्द्ध मे पाणिग्रहणं कारितमस्ति, तत इदानीं हे देवि ! तमहं कथं त्यजामि ? ततो यादृशस्तादृशोऽप्यसौ कुष्टथेवेह भवे मम प्राणवल्लभोऽस्ति, अन्यथाः मम मरणमेव शरणं वर्त्तते. पुनर्हे देवि ! मम मनस्यसौ कुष्टथेव रुच्यते, न कश्चिदन्यः, इमं मे भर्त्तारमहमिन्द्रात्कामाच्चाप्यधिकमेव मन्ये, एतस्मादेव कुष्टितो मम मनोवांछितभोगसंपदो भविष्यन्ति, ततो हे मातः ! प्रसादं कृत्वा त्वयानीतममुं पुरुषोत्तमं निजस्थानके मुञ्च ?' तत् श्रुत्वा सा देवी कुपिता सती तत्क्षणमेव तां बालां पादयोर्गृहीत्वा नभस्युल्लालयामास पतन्तीं च तां त्रिशूलधृतां विधाय देव्युवाच 'रे मुग्धे ! ममोक्तं कुरु ? अन्यथा तवात्र मरणं भविष्यति, '
अथ निचलचित्ता सावदत् ' हे देवि ! प्राणान्तेऽप्यहं मे शीलभ्रंशं नैव करिष्यामि, अधुना वा पश्चादप्येतच्छरीरमवश्यं त्याज्यमेव' इत्युक्त्वा सा बाला नवकारं स्मरन्ती यावत्तिष्ठति तावत्सा बालात्मानं सुखावस्थं पश्यति, न च देवीं, न च तं नरशेखरं, न चापि तं कुष्टिनं पश्यति तदाश्रयं दृष्ट्वा विस्मिता सा बाला स्वचित्ते चिन्तयति किमेतत्सत्यं वा स्वममह पश्यामि ? मे स कुष्टी भर्चा क्व गतः ? इत एकं दिव्यरूपधारिणं दिव्याभरणभूषितं च पुरुषमग्रे स्थितं सा पश्यति,
************
श्रीमइरावती कथा ॥
॥८१॥