________________
3899
श्रीमइरावतीकथा॥
श्रीवर्द्धमान
मनागपि रोषमविधाय तेन कुष्टिना सहिता नगराद्वहिरेकस्मिन् देवकुले धर्मध्यानं कुर्वन्ती सुखेन स्थिता. जिनदेशना अथ तो स कुष्ट्युवाच 'हे भद्रे ! दुष्टबुद्धिना राजा नूनमेतत्सुंदरं न कृतं, निजकुलस्यानुचितं कृतं, क्व करीरः ? क्व च ॥८॥ कल्पलता ? क्व कागः? क्व च रत्नमाला ? एवमतिलावण्ययुता पश्रिया रंभातुल्या पुण्यात्मा कमलकोमलांगी त्वं क्वकचा
पूर्वार्जितकर्मभिर्भयंकररोगपीडितः ? मम संयोगतश्च तवातिसुंदरं शरीरं विनाशं प्राप्स्यति, तेन हे महाभागे ! त्वं कस्यापि महद्धिकस्य गृहे याहि ? त्वं तु यत्र कुत्रापि गता राजहंसीव सन्मानं लभिष्यसे.' इति कुष्टिवचनं श्रुत्वा सा राजपुत्री वज्राहतेवातिपीडिता रुदन्ती गद्गदस्वरेणोवाच, 'हे नाथ! उत्तमकुलोद्भूतानां कुलांगनानामेतद्वचनश्रवणतोऽपि वज्राघात इव भवति, प्रथमं तु स्त्रीजन्मैवानन्तपापोदयोद्मसति, तदपि चेच्छीलरहितं भवेत्तदा तासां का गतिर्भवेत् ? हे नाथ! शीलं विना नारीन | शोभते, इहभवे परभवे च पुरुषस्त्रीणां शीलाभरणं विना न किंचिदप्यन्याभरणमस्ति. यौवनरूपश्रीस्तु जीवेनानंतशा वारान् प्राप्तास्ति, परं शीलरत्नप्राप्तिदुर्लभास्ति. रोगी वा निरोगी वा, निर्धनो वा सधनो वा. इह भवे तु त्वमेव मे प्राणनाथोऽसि, अन्यथा ज्वलदग्निरेव मम शरणमस्तु. अतः परं निजदास्युपरि कृपां विधाय पुनरीदृग्वचनं भवद्भिः कदापि न वाच्यं.' तत श्रुत्वा संतुष्टः कुष्टी मौनं कृत्वा स्थितो वचनामृतेन च सिक्तः सन्निद्रां प्राप्तः. | तो दिनकरोऽप्यस्तं गतः, अंधकारश्च दुर्जनचित्तवन्सर्वत्र विस्तृतः तस्मिन् समये सा बाला निजपतेश्चरणौ स्पृशन्ती
पंचपरमेष्टिमंत्रं च स्मरन्ती यावत्तिष्ठति तावदेका वरनारी पुरुषमेकं सार्थे कृत्वा तत्र समागता, ततः सा नारी प्रसन्नवदना * सती राजकुमारी प्रत्यवादीत् ' हे कन्यके ! मां त्वं नगराधिष्ठायिकां देवीं जानिहि ? त्वपितृकृतविडंबनां त्वां दृष्ट्वा तव
|
能帶带带帶聯聯端端器器器器器端端端端端端霧器帶號號號號號號
张器器蟲器錄器器馨馨馨藥器蒸發器馨馨馨馨器端發言
|८०॥