________________
श्री वर्द्धमान जिन देशना
॥७९॥
**********
धनाढ्यमपि दरिद्रिणं करोमि, ततो यदि त्वं मम प्रसादं मानयिष्यसि तदा त्वां धनाढ्यायोत्तमराजकुमारवराय दास्यामि, यदि च तथा न मानयिष्यसि तदातीवहीनाय कस्मेचिकायैव त्वां दास्यामि'
तत् श्रुत्वा हसित्वा सा बालात्रवीत् 'हे तात ! त्वद्दत्तः प्रधानवरोऽपि मम पुण्याऽभावान्निश्चयेन रङ्को भविष्यति, चेन्मम प्रकटीभविष्यति, तर्हि त्वद्दत्तो रंकोऽपि मे वरो महासमृद्धियुतो राजाधिराजो भविष्यति, अतः संसारवृक्षस्य मूलतुल्यमेनं गवं त्वं परिहर ?' तत् श्रुत्वा क्रोधांधलो राजा निजसेवकानवादीत् 'भो भो सेवका यूयं शीघ्रमेवैकमतिहीनकुलोद्भवं दीनं दुःखिनं रोगाक्रान्तं पुरुषमत्रानयत ? तत् श्रुत्वाजीविकै कलालसास्ते सेवका अपि द्रुतं गत्वा चतुष्पथोपविष्टं तथाविधं पुरुषमेकमाकार्य तेन युता नृपाये समागता अञ्जलिं विधाय कथयामासुः, 'भो स्वामिन्! भवदाज्ञयासौ तदाविधः पुरुषो ऽस्माभिरानीतोऽस्ति. '
राजापि गलितकर्णं निविष्टनासिकं उष्ट्रोष्टवल्लं चायमानोष्टपुटं कूपगहनगलं दुष्टकुष्टांत गलितसर्वगुलिकं गिरिकंदरझरनिर्झरवद्वदन गलल्लालाकुलकायं समस्तशरीरव्याप्तव्रणगणगतागणितकृमिकुल भर्त्सनीयशरीरं अस्थिचर्मावशेषदेहमतिभीषणं तं कुष्टिनं नरं दृष्ट्वा निजसुतां प्रति वदति, 'हे पुत्रि ! पश्यैनं नरं, एषः पुरुषोऽत्र तव कर्मणैवानीतोऽस्ति, तदस्य पाणिग्रहणं कुरु ?' तत् श्रुत्वा सा बाला तत्क्षणमेवोत्थाय तस्य कुष्टिनः पाणिग्रहणं चकार. तद् दृष्ट्वा सर्वेऽपि सभाजना हाहाकारमकुर्वन्
अथ कुपितो राजा तस्या वस्त्रालंकारादि सर्वं गृहीत्वा कुष्टिसहितां तां नगराद्वहिर्निःकासयामास राजसुता तु मनसि
********
श्रीमइरावतीकथा ॥
॥७९॥