________________
श्री वर्द्धमान
जिन देशना
॥७८॥
*********
मुमोच तदा सापि निजपितुः पादान्नमस्कृत्य यावत् स्थिता तावत्पित्रा सा स्नेहेन निजोत्संगे स्थापिता.
अथ तां तथाविधां पुत्रीं समास्थितांच महाडंबरोपेतान् लोकान् वीक्ष्य गर्वगिरिशृङ्गारूढो राजा मंत्र्यादीन् प्रतीदमवादीत्, 'भो अमात्यादयो लोका यादृशी ऋद्धिर्मम वर्त्तते, यादृशी च ममैषा शोभायुता सभा वर्त्तते. यादृशं च मम शोभनं ॐ कुटुम्बमस्ति, तादृकू तत्सर्वं किमन्यस्यापि राज्ञो वर्त्तते ?' तत् श्रुत्वा समालोका वदन्ति 'हे स्वामिन्! सभाकुटुम्बादि याह* ग्भवतामस्ति तादृक् तत्सर्वमन्यो राजा स्वप्नेऽपि दृष्टुं न समर्थोऽस्ति तत् श्रुत्वा सा कन्येद् हसित्वा निजमस्तकं धूनयामास तदा राज्ञा पृष्टं 'भो पुत्रि ! त्वया मस्तकं कथं धूनितं ?' तयोक्तं 'भो तात ! सभाजनोऽयं यद्वदति, तत्सर्वमसत्यमस्ति, तोऽस्यां पृथ्व्यां तरतमतोपेतद्वियुता अनेके राजानो वर्तन्ते तत् श्रुत्वा राजा किचिद्दनः सभालोकानवादीत् 'भो लोका यूर्य कस्य प्रसादेन सुखिनः स्थ ?' लोका वदन्ति 'स्वामिन्! भवतां प्रसादेनैवास्माकं सुखं वर्त्तते, यतः कल्पवृक्षादन्यः कोऽपि वृक्षः किं वांछित पूरयति ?' तत् श्रुत्वा कन्यावदत् 'भो भो मूढलोका मुधालीकं कथं वदथ ? यतोऽयं जीवः कर्मवशादेव शुभाशुभं लभते, किं च हे तात ! यदि भवत्कृतमेव चेच्छुभाशुभं भवेत्तर्हि सर्वानपि सेवकान् यूयं तुल्यसुखोपेतान् किं न कुरुथ ? यत एके भवत्सेवका गजाश्वरूढाः सुखेन गच्छन्ति, अपरे च भवत्सेवकाः पादचारेणाग्रे धावमाना दृश्यन्ते, ततो हे तात! यैः पूर्वभवे शुभं कर्म निर्मितमस्ति तेषामेव त्वं सुखं दातुं समर्थोऽसि, न पुनरन्येषां कि चाहमपि पूर्वकृत सुकृतानुसारेणैव तव कुले समुत्पन्नास्मि तेनैव च ममेदृशी सुखसामग्री जातास्ति तत् श्रुत्वा राजा रुष्टः सन् कथयति ' हे मूर्खे ! त्वं किमिदमसमंजसं ब्रवीषि १ नूनं पुत्रीरूपा त्वं मम वैरिणी वर्त्तसे, अहं तु तुष्टः सन् दरिद्रिणं धनाढ्यं करोमि, रुष्टव
श्रीमहरा - | वतीकथा ॥
||26||