________________
श्री वर्द्धमान जिन देशना ॥७७॥
**%2******22286%2.
चतुर्थव्रतमहिमा
等等號樂器器鑑器帶蓋聽聽器聽器器端器端器端端器蒸部驚器端聯網
नारी नितम्बजघनस्तनभूरिभारा-मारोपयन्त्युरसि मृढधियो रताय । संसारवारिनिधिमध्यनिमज्जनाय, जानन्ति तां न हि शिलां निजकण्ठबध्धाम् ।। ३९॥ भवोदन्वद्वेलां, मदनमृगयुव्याधहरिणी, मदावस्थाहालां, विषयमृगतृष्णामरुभुवम् ।
महामोहध्वान्तो-च्चयबहुलपक्षान्तरजनीम् , विपत्खानि नारी, परिहरत हे श्राध्धसुधियः॥४०॥] अथानंद आनंदयुतो जिनवरं विज्ञपयति 'हे करुणासागर! चतुर्थ व्रतमथ ममाग्रे कथ्यतां ? श्री जिनोऽवादीत 'भो श्रेष्टिन् ! साधूनां सर्वस्त्रीवर्जनं भवति, श्राद्धानां चात्मीयां भार्यो विना परस्त्रीवर्जनं भवति. श्राद्धः सदा परस्त्रीवर्जनं करोति, श्राद्धी च सर्वदा त्रिविधेन परकांतवर्जनं करोतीति. एवंविधाः पुरुषाः स्त्रियश्च त्रिभुवनेऽपि पूजनीया भवन्ति. याः स्त्रियश्च | मनोवचनकायैः परकांत वर्जयन्ति ता मइरावतीव सर्वसंपदां भाजनं भवन्ति. तद्यथा
क्षितिप्रतिष्ठितनगरे रिपुमर्दनो राजा वसति, यस्य प्रतापदिनकरः क्षपायामप्युद्योतं करोति, तस्य राज्ञः सौभाग्यवती निर्मलशीलालंकृता सकलगुणधारिणी मदनरेखाभिधा पट्टराज्यस्ति. सा जिनमतप्रवीणा जीवाजीवादिनवतत्ववेत्री वर्तते, पूर्वकृतपुण्यानुयोगतो मानुष्यसुखानि भुञानयोस्तयोर्मइरावत्यभिधा पुत्री जाता. सातीव रूपवती शशिकलावबृद्धि प्राप्नुवन्ती क्रमेण स्त्रीसंबंधिचतुःषष्टिकलाकलापकलिता बभूव. निजजननीसकाशात्प्राप्तधर्मकला जिनमतप्रवीणा सम्यक्त्वधारिणी कर्मवादकतत्परा क्रमेण सा जगज्जनमोहनीयं यौवनं प्राप्ता.
अथैकदा तज्जननी तां मइरावतीं पुत्रिका संस्नाप्य वस्त्राभरणादिभिर्विभूषितां विधाय सभास्थितस्य नृपस्य पार्श्व
*
%
2
*80802888888