________________
श्री वर्द्धमान जिन देशना ।।७५||
चतुर्थव्रत| महिमा॥
नरः स्मरपराधीनः, स्त्रीकण्ठमवलम्बते । नात्मनो वेत्त्यसूनद्य, श्वो वा कण्ठावलम्बिनः ॥ ११ ॥ स्त्रीणां भुजलतावन्धं, बन्धुरं बुध्यते कुधीः । न कर्मबन्धनैर्बध्ध-मात्मानमनुशोचति ॥१२॥ धत्ते स्त्रीपाणिभिः स्पृष्टो- हृष्टो रोमाश्चकष्टकान् । स्मारयन्ति न किं तेऽस्य, कूटशाल्मलिकण्टकान् ॥ १३॥ कुचकुम्भौ समालिड्रग्य, स्त्रियाः शेते सुखं जडः । विस्मृता नूनमेतस्य, कुम्भीपाकोद्भवा व्यथा ॥१४॥ मध्यमध्यासते मुग्धा-मुग्धाक्षीणां क्षणे क्षणे । एतन्मध्यं भवाम्भोधे-रिति नैते विविञ्चते ॥ १५ ॥ धिगङ्गनानां त्रिवली-तरङ्गैहियते जनः । त्रिवलीछाना ह्येत-न्ननु वैतरणीत्रयम् ॥ १६ ॥ स्मरात मजति मनः, पुंसां स्त्रीनाभिवापिषु । प्रमादेनापि किं नेद, साम्याम्भसि मुदास्पदे ।। १७ ॥ स्मरारोहणनिःश्रेणी, स्त्रीणां रोमलतां विदुः । नराः संसारकारायां, न पुनर्लोहशङ्खलाम् ॥ १८ ॥ जघन्या जघनं स्त्रीणां, भजन्ति विपुलं मुदा । संसारसिन्धोः पुलिन-मिति नूनं न जानते ॥ १९॥ भजते करभोरूणा-मूरूनल्पमतिर्नरः । अनूरुक्रियमाणं तैः, सद्गतौ स्वं न बुध्यते ॥ २० ॥ स्त्रीणां पादैहन्यमान-मात्मनं बहु मन्यते । हताशो न तु जानाति, क्षेप्यमाणमधोगतौ ॥२१॥ दर्शनात् स्पर्शनाच्छ्लेषाद्- या हन्ति शमजीवितम् । हेयोग्रविषनागीव, वनिता सा विवेकिभिः॥ २२॥ इन्दुलेखेव कुटिला, सन्ध्येव क्षणरागिणी । निम्नगेव निम्नगति-वर्जनीया नितम्बिनी ।। २३ ॥ न प्रतिष्ठां न सौजन्यं, न दानं न च गौरवम् । न च स्वान्यहितं वामाः, पश्यन्ति मदनान्धलाः ॥२४॥
继晓器樂器跳跳跳跳跳端器樂器继继聯柴柴柴柴柴柴柴柴晓
७५॥