________________
श्री वर्द्धमान जिन देशना
॥७४॥
चतुर्थव्रतमहिमा
ऐश्वर्यराजराजोऽपि, रूपमीनध्वजोऽपि च । सीतया रावण इव, त्याज्यो नार्या नरः परः॥१०२॥ नपुंसकत्वं तिर्यक्त्वं, दौर्भाग्यं च भवे भवे। भवेन्नराणां स्त्रीणां चाऽन्यकान्तासक्तचेतसाम् ॥१०३॥ प्राणभूतं चरित्रस्य, परब्रह्मककारणम् । समाचरन् ब्रह्मचर्य, पूजितैरपि पूज्यते ॥१०४॥ चिरायुषः सुसंस्थाना-दृढसंहनना नराः । तेजस्विनो महावीर्या-भवेयुब्रह्मचर्यतः ॥१०५॥
आ-पश्यन्ति कृष्णकुटिलां, कबरीमेव योषिताम् । तदभिष्वङ्गजन्मानं, न दुष्कर्मपरम्पराम् ॥ १॥ सीमन्तिनीनां सीमन्तः, पूर्णः सिन्दूररेणुना । पन्थाः सीमन्तकारव्यस्य, नरकस्येति लक्ष्यताम् ॥ २॥ भूवल्लरीं वर्णिनीनां, वर्णयन्ति न जानते । मोक्षाध्वनि प्रस्थितानां, पुरोगामुरगीमिमाम् ॥ ३॥ भङ्गरानयनापाङ्गा-नङ्गनानां निरीक्षते । हतबुद्धिन तु निजं. भगरं हन्त जीवितम् ॥ ४॥ नासावंशं प्रशंसन्ति. स्त्रीणां सरलमुन्नतम् । निजवंशं न पश्यन्ति, भ्रश्यन्तमनुरागिणः ॥ ५॥ स्त्रीणां कपोले संक्रान्त-मात्मानं वीक्ष्य हृष्यति । संसारसरसीपङ्के, मजन्तं वेत्ति नो जडः॥६॥ पिबन्ति रतिसर्वस्व-बुध्ध्या बिम्बाधरं स्त्रियाः । न बुध्यन्ते यत्कृतान्तः, पिबत्यायुर्दिवानिशम् ॥ ७॥ योषितां दशनान् कुन्द-सोदरान् बहु मन्वते । स्वदन्तभङ्गं नेक्षन्ते, तरसा जरसा कृतम् ।। ८॥ स्मरदोलाधिया कर्ण-पाशान् पश्यति योषिताम् । कण्ठोपकण्ठलुठितान, कालपाशांस्तु नात्मनः ॥९॥ योषितां प्रोषितमतिर्मुखं पश्यत्यनुक्षणम् । क्षणोऽपि हन्त नास्त्यस्य, कृतान्तमुखवीक्षणे ॥१०॥
李继號跳號號號號號幾號號號號號聯柴柴號驚艷端端端端樂器 露器
७४॥