________________
श्री वर्द्धमान जिन देशना ॥६९॥
वैद्य औषध्यानयनार्थं दूरे घनवन निकुञ्जे गतोऽस्ति को जानाति स कदात्रागमिष्यति ? तस्माद्भो भद्र ! चेत्चमतीव तृषातुर* स्तर्हि सुखेनास्या इतेर्जलं पित्र ? अहमपि तत्कस्यापि नैव कथयिष्यामि," इति शुकोक्तं श्रुत्वा गुणधर श्रेष्ठी कराभ्यां श्रवणयुगलं पिधाय शुकं प्रत्युवाच 'भो शुकराज ! चेत्तृषा मम प्राणा अपि यास्यन्ति, तथाप्यहमदत्तं नैव गृहिष्यामि यतोऽद*तग्रहणे महत्पापं वर्त्तते' इत्युक्तवा यावत्स स्थितस्ताव न पञ्जरं, न शुकं, न चापि दृतिं स पश्यति
इएको नरः प्रकटीभूय तमुवाच “भो पुरुषोत्तम ! वैताढ्थे विपुलाख्या नगरी वर्त्तते, तत्राहं सूरनामा विद्याधरो वसामि मम जनकेन च प्रव्रज्या गृहीतास्ति, स च भवतां नगरेऽस्ति, तस्य नमनार्थमहं तत्र पूर्व समागत आसीत्, ॐ नवसरे भो सत्पुरुष ! त्वया तन्मुनिपार्श्वेऽदत्तग्रहण नियमो गृहीतोऽभूत्.
तस्मि
तदा मया चिंतितम्, 'असावेतद्व्रतं कथं पालयिष्यति ? अयं तु सर्वदा दूरदेशे याति, क्रयविक्रयं करोति एवं व्यापारकरणे परद्रव्यग्रहणनियमोsस्य दुष्पाल्य एव तदस्याहं परीक्षां कुर्वे इति विचित्यादृश्यतया मयैतत्सर्वं कृतं त्वत्परीक्षायै रत्नमालानिधानादि मया दर्शितं परं त्वच्चित्तं लोभाभिभूतं न बभूव अश्वोऽपि ते मृतः पादाभ्यां चलन् भृशं तृषातुरस्त्वं शुकेन प्रेरितोऽपि प्राणसंदेहसमयेऽपि केवलं निजनियमपालनार्थं लब्धमपि पानीयमदत्तं विज्ञाय नापित्रः" इत्युक्त्वा तेन सुरविद्याधरेण निजसेवका seriीभूय तत्र स्थिता आसंस्ते आकारिताः तैः सेवकैरानीतं निधानरत्नमालाश्वादि अन्यदपि च बहुद्रव्यं विद्याधरेण तस्य सार्थपतेरग्रे ढौकितं, ततोऽसौ विद्याधरस्तद्धनयुतं गुणधरं तत्सार्थमध्ये समानीतवान्.
अथ गुणधरो विद्याधरं प्रति जगाद 'भो विद्याधर ! किमर्थमेतद् द्रव्यं त्वयानीतं ?' विद्याधर उवाच 'भो महाभाग !
श्रीलक्ष्मीपुअकथा ॥
॥६९॥