________________
श्रीं वर्द्धमान जिने देशना ॥६८।।
******************
स्तदानेके विद्याधरास्तत्र धर्म शृण्वन्ति गुणधरोऽपि तं मुनिं त्रिःप्रदक्षिणीकृत्य नत्वा चाग्रे उपविष्टः मुनिनोक्तं 'भो भव्यलोका इह चौर्यकरणतो लोकानां मरणादिदुःखं भवति, परभवे च नरकसंबंधिदुःखानि भवन्ति, अतो भव्यसत्यैः कदापि चौर्य न कर्त्तव्यं तद् श्रुत्वा पुण्यात्मना गुणधरश्रेष्टिना गुरुपार्श्वेऽदत्तादाननियमो गृहीतः, ततोऽसौ श्रेष्ठी गुरुं नमस्कृत्य स्वगृहे समागतः
अथैकदास श्रेष्ठी वाञ्छया साथै विषाय क्रयाणकभृतानि पंचशतशकटानि गृहीत्वा देशान्तरं प्रति चचाल. साथ महाटव्यां प्राविशत्, गुणधरश्रेष्ठी तु राजभयात्तुरगारूढः कयाचित्पाददंडिकया प्रचलितुं लग्नः, इतस्तेन मार्गे एका रत्नमाला पतिता दृष्टा, परं व्रतभंगभयेन स तां न जग्राह .
अथ सार्थमनुष्याणां दूरतः शब्दं श्रुत्वा स शीघ्रतरं स्वाश्वं प्रेरयामास, इतोऽग्रे पथि तुरगखुरखरघाततो विदीर्णायां पृथ्व्यां निधानं प्रकटीभूतं, तदपि व्रतभंगभयात्तेन न गृहीतं. अथातिप्रेरणतस्तस्य तुरगो मार्ग एव मृतः, तद् दृष्ट्वा पापभीरुः श्रेष्ठी चिन्तयति 'नूनमयमश्वो मयाऽतिप्रेरणान्मारितः, ' ततोऽसावुच्चैःस्वरेणावदत् 'यः कोऽप्यमुमचं जीवापयति तस्याहं मम सर्व धनं यच्छामि' इति कथयित्वा स पादचारेणाग्रे चचाल.
ततोऽसौ बाधया बाधितो जलगवेषणार्थमटव्यां भ्रमति, इत एकस्मिन् वृक्षे हर्ति दृष्ट्वा तत्रागत्य दृष्टः सन्नुत्वाच 'भो एषा जलभृता दृतिः यावत्स वदति तावद् वृक्षशाखायां पंजरस्थ एकः शुको मनुष्यभाषयोवाच, 'भो सत्पुरुष ! एषा दृतिरेकस्य वैद्यस्यास्ति, स च
तच्छाखायां जलभृतां प्रलम्बमानां कस्य विद्यते ?' एवं गाढस्वरेण
श्रीलक्ष्मीपुञ्जकथा ॥
॥६८॥