________________
श्रीवर्द्धमान जिन देशमा ॥६७॥
श्रीलक्ष्मी पुञ्जकथा॥
鲁號號塑端游聽聽聽聽端端端端器靈藥聯懿端继继盛能繼能聽器能
खनति तावत् स तत्र मणिकनकभृतमेकं कलशं दृष्ट्वातिहृष्टः सन् चिन्तयति 'नूनमयमस्य गर्भस्यैव प्रभावः.' अथ स तन्मणिकनकादि विक्रीयकं सप्तभूमिमंडितमावासं कारयामास, बह्वो दासीदासाश्च तेन गृहे रक्षिताः. एवं तत्कलशानिकास्यमानं तद्र्व्यं कूपजलवत्कदाचिदपि क्षीणं न जातं. अथ तृतीयमासे गर्भानुभावतो धन्नाया यानि यानि सुदोहदानि समुत्पन्नानि तानि तानि सुधर्मः पूरयामास.
ततः पूर्णेषु मासेषु शुभलग्ने शुभवासरे सा पुत्ररत्न जनयामास. तदा दानगीतवादित्रादिभिस्तेन तथा पुत्रजन्ममहोत्सवः कृतो यथा लोकानामपि विस्मयो जातः. तृतीयदिने तस्य चंद्रसूर्य योर्दर्शन कारितं, पष्ठे दिने च रात्रिजागरणं कृतं. तत एकादशे दिनेऽशुचिं दूरीकृत्य द्वादशे दिने ज्ञातिगोत्रियाणां भोजनपूर्वकं तत्समक्षं तस्य पुत्रस्य लक्ष्मीपुंज इति नाम दत्तं. अथ क्रमेण स लक्ष्मीपुंजो वृद्धि प्राप्नुवन्नष्टवाषिको जातस्तदा महतां धनाढथानां व्यवहारिणामष्टाभिः कन्याभिः सह नस्य तत्पित्रा विवाहो विहितः, ताभिः कन्याभिः सह स सप्तभौमे प्रासादे भोगविलासान् करोति. लोके यद्यत्प्रीतिकरं यद्यच्च सुखकर तत्सर्व तेन लक्ष्मीपुंजेन निपेवितं भुक्तं च.
एवं भार्याभिर्विनिर्मितगीतगानादि शण्वन सोऽनुत्तरसुखनिजकालं गमयति स्म.अथान्यदा भार्यासमापे सुप्तः सन् लक्ष्मीपुजश्चिन्तयति "अहो ! इमा एतावत्यो भोगश्रियो ममाचिन्तिताः कुतः समायाताः?" इत एको दिब्यरूपधारी दिव्यांबरभूषण| भूषितः पुमान् आगत्यांजलिं विधाय लक्ष्मीपुजं वदति, 'हे महाभाग ! लक्ष्मीधराख्यमेकं नगरमस्ति, तत्र गुणधराभिधश्चैकः श्रेष्ठी वसति, स च धनाढयः सरलपरिणामो वर्तते, अन्यदा स वनखंडे गतस्तत्रैकं मुनि प्रशांतात्मानमपश्यत्. तस्याग्रे उपविष्टा
聯號聯柴柴柴聯鼎鼎鼎聯聯馨馨馨馨馨馨馨馨藥藥鱗聯強聯合器
॥६
॥