SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्री वर्द्धमान जिन देशना ॥६६॥ श्रीलक्ष्मीपुञकथा॥ 端路器禁際聯蒸聽器聽聽器聚號樂器樂器器端端器鉴錄器器柴柴柴 पुण्यवन्तो ये नराः कदापि न गृह्णन्ति तेषामिह लोके यशःकीर्ती भवतः, परलोकेऽपि च सवसुखानि भवन्ति. यश्च चौर्येण | परद्रव्यं गृह्णाति, तस्येहापि शूलारोपणच्छेदनभेदनादीनि दुःखानि भवन्ति, परभवेऽपि चातीव तीव्राणि नरकदुःखानि भवन्ति येषां च परद्रव्यग्रहणे नियमोऽस्ति ते धन्याः सर्वसंपदां भाजनं भवन्ति, लक्ष्मीपुंजवच्च सुखिनो भवन्ति. तत् श्रुत्वानंदो प्रभु विज्ञपयति 'हे स्वामिन् ! को लक्ष्मीपुंजः? कथं च तेन तृतीयं व्रतं पालितं ? कथं च लक्ष्मीः प्राप्ता ? ' स्वाम्युवाच 'भो आनंद ! त्वं सावधानमनसा जगत्याश्चर्यभूतमस्य चरित्रं शृणु ?' ___"अस्मिन् भरतक्षेत्रे हस्तिनापुराख्य नगरं सर्वनगरश्रेष्टं वर्तते, तस्मिन्नगरे सुधर्माभिध एको वणिवसति, स च महादरिद्री वर्तते, तस्यगृहे सर्वथा लक्ष्मी नास्ति परं स जैनधर्मी जीवादिथवतत्त्ववेत्ता वर्त्तते कपर्दिका विक्रीय चाजीविकां करोति. एवं क्रयविक्रयं कुर्वन् स दुःखेन स्वनिर्वाहं करोति. तस्य धन्नाभिधा भार्या वर्ततेसा चैकदा सुखेन सुप्ता निशायां स्वप्ने हारकुंडलादिविराजमानां रत्नस्वर्णमयकमले स्थितां पद्मद्रहवासिनी श्रीदेवीं दृष्ट्वा प्रबुद्धा सती तत्स्वरूपं भर्तारं कथयामास, श्रेष्टयपि तत् श्रुत्वा हर्षेण वदति 'हे प्रिये ! तव श्रीमान् गुणवान् श्रेयोऽन्वितो दुःखहर्ता कीर्त्तिकारको जिनवरपदभक्तश्च पुत्रो भविष्यति.' इति पत्युक्तं श्रुत्वा सा धन्ना जिनगुणगानं कुर्वन्ती तां रजनी निर्वाहयामास. अथ तस्तिन्नेव दिने तस्य सुधर्मवणिजः क्रयविक्रयं कुर्वतो बहुलाभो जातः, अथानुक्रमेण गर्भोऽपि वर्द्धितः, तद् दृष्टा सुधर्मेण चिन्तितं 'मम गृहे लक्ष्मीरतीव स्तोका वर्त्तते, अतो निर्द्धनत्वादस्य पुत्रस्य जन्मोत्सवमहं कथं विधास्ये? इति चिन्तया आर्तध्यानगतो यावत्पादांगुष्ठेन पृथ्वीं 要爭端端端聽聽聽聽聽聽器端端端端樂樂器樂樂器端端端聯聯發聯 ॥६६॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy