________________
श्री वर्द्धमान
जिन देशना 119011
पिता मां प्रतिबोध्य कथयामास 'यभ्वं परद्रव्यग्रहणे नियमं कुरु ? परं मया व्यसनवशेन चौरी न त्यक्ता, अधुना तु मया त्वत्स्वरूपं दृष्ट्वा स्वयमेव चौर्य त्यक्तं इति हेतोच त्वं मे गुरुरसि तेन चानेन द्रव्येणाहं तव पूर्जां करोमि, अतस्त्वं गृहाण ?' तत् श्रुत्वा गुणधरश्रेष्टघुवाच 'हे भद्र ! यस्यैतद् द्रव्यं भवेत्तस्यैव त्वया पश्चाद्देयं,' तदा विद्याधरोऽवादीद्, 'एतद्रव्यं तु मदीयमेव वर्त्तते, अन्यस्य कस्यापि नास्ति, तस्मादेतत्वं गृहाण ?'
तदा सार्थपतिस्तु प्रत्युतात्मीयमपि सर्वं द्रव्यं तदग्रे मुक्त्वा विद्याधरं प्रति जगाद 'भो सत्पुरुष ! त्वया मम घोटको ॐ जीवापितोऽस्ति, मया तच्चैस्तरेण प्रतिपन्नमस्ति यद्यः कोऽपि ममाचं जीवापयिष्यति तस्याहं मम सर्व धनं दास्यामीति त्वं मम धनमंगीकुरु ?' विद्याधरेणोक्तं 'भो सत्पुरुष ! स्वमस्माकं पूज्योऽसि ततो भवदीयं द्रव्यमहं नैव ग्रहिष्यामि तदा famraises 'भष्टन् ! एवं यदि मदीयं धनं त्वं न गृह्णासि, त्वदीयं चाहं न गृह्णामि, तर्हि अस्या श्रियः कः स्वामी भविष्यति ?' श्रेष्ठिनोक्तं ' भो विद्याधर ! अस्याः श्रियो धर्म एव स्वामी, अतस्तां धर्मार्थे नियुंज्यावां स्वजन्म सफलं करिध्यावः ' ततस्तौ द्वावपि सप्तक्षेत्रेषु सर्व धनं वपतः स्म.
अथ निजायुः संपूत सश्रेष्ठी धर्मध्यानेन मृत्वा त्वं लक्ष्मीपुंजो जातः, स विद्याधरोऽपि च दानं दत्वा शुभभावेन मृत्वाहं व्यंतराधिपतिर्जातः, तव पुण्यप्रभावात्पूर्वभवस्नेहेन गर्भकालादारभ्य तवावसरोचितां सर्वो सामग्रीमहं पूरयामि इि व्यंतराधिपोक्तं वृत्तांतं श्रुत्वा लक्ष्मीपुंजस्य जातिस्मरणज्ञानमुत्पन्नं ततः पूर्वभवं दृष्ट्वा प्रमोदतस्तस्य वैराग्यमुत्पन्नं, तेन सर्वस्वं संत्यज्य स दीक्षां जग्राह शुभभावेन प्रतिपाल्य चाच्युतकल्पे देवो जातः, ततश्च्युत्वा मनुष्यभवं प्राप्य दीक्षां गृहीत्वा
श्रीलक्ष्मीपुत्रकथा ॥
119011