________________
श्री वर्द्धमान जिन देशना ॥६४॥
एवं सत्यप्रभावान्मनुष्य भवेऽपि हंसनृपेण देवसंबंधिभोगाः संप्राप्ता. परलोकेऽपि च तेन देवगतिः प्राप्ता. अतो भो भव्या इति हंसनृपस्य चरित्रं श्रुत्वा चिन्तामणिरत्नसदृशे द्वितीयत्रते नित्यमादरो विधेयः, यदि शक्यते तदा सर्वथालीकं न वक्तव्यं. अथ यदि सर्वथा तत्पालयितुं न शक्यते तर्हि यतना कार्या, तथा च यदि सर्वथा नियमं कर्त्तुं न शक्यते तदा सुश्रावकेणेमे पंचालीकानि तु सर्वथा वर्जनीयानि, तद्यथा— कन्यालीकं १ गवालीकं २ भूम्यलीकं ३ न्यासापहारः ४ कूटसाक्षिकं च ५. स्थूलमृषावादविरतेन च श्रावकेणेमे तत्पंचातीचारा न समाचरणीयाः, तद्यथा
१ सहसा १ रहस्स २ दारे ३ । मोसूवएसे य ४ कूडलेहे य५ ॥ बीयवयस्स इयारे । पडिक्कमे देसियं सव्वं ॥ १ ॥ एते पंचातीचाराः श्रावण कायेन न स्पर्शयितव्याः तत् श्रुत्वानंदश्रावकेण द्वितीयं व्रतं गृहीतं.
॥ अथ तृतीयं व्रतम् ॥
[ दोर्भाग्यं प्रेष्यतां दास्यमङ्गच्छेदं दरिद्रताम् । अदत्तात्तफलं ज्ञात्वा, स्थूलस्तेयं विवर्जयेत् ॥६५॥ पतितं विस्मृतं नष्टं स्थापितमाहितम् । अदत्तं नाददीत स्वं, परकीयं कचित्सुधीः ॥६६॥ अयं लोकः परलोको - धर्मों धैर्य धृतिर्मतिः । मुष्णता परकीयं स्वं, मुषितं सर्वमप्यदः ॥६७॥ एकस्यैकं क्षणं दुःखं, मार्यमाणस्य जायते । सपुत्रपौत्रस्य पुन- यवज्जीवं हृते धने ॥६८॥ चौपापमस्येह, वधबन्धादिकं फलम् । जायते परलोके तु, फलं नरकवेदना ॥ ६९ ॥
१ सहसा-रहस्य- दारा-मृषोपदेश - कूटलेखे च द्वितीयव्रतस्यातिचारान् प्रतिक्रमे दैवसिकं सर्वम् ॥
तृतीयत्रत महिमा ॥
॥६४॥