________________
श्री वर्द्धमान जिन देशना ॥६३॥
श्रीहंसराजकथा॥
藥端端帶藥藥聯佛聯聯聯馨馨藥能帶跳離論柴柴號樂器端能够继
अथ प्रगे हंसराजाप्यग्रे चलितः, पश्चात्केऽप्यश्ववाराः समागत्य हंसराजानं वदन्ति, “भो पुरुष ! अस्माकमर्जुनाख्यो नृपो वर्तते, तेन चागत्य राजपुरी नगरी गृहीता, तत्रत्य हंसराजा तु ततो नष्टोऽस्ति, अर्जुनराज्ञा च तस्य वधार्थ वयं प्रेषिताः स्मः, ततस्त्वया चेत्स हंसराजा दृष्टो भवेत्तास्माकं तं त्वं दर्शय ? यथा तं मास्यामः," तत् श्रुत्वा हंसराजा चिन्तयति “अहो जीवितमात्रस्यार्थे को मृषा वदेत् ? मम जीवितं सुखेन यातु, परमहं मृषा नैव कथयिष्यामि."
इति विचिन्स्य तेन सुभटेम्यः प्रोक्तं "भो सुभटाः अहमेव हंसराजास्मि, यथा भवतामिच्छा तथा क्रियतां ?" इति कथयित्वा स नवकारमस्मरत्. इतो गगने देवदुंदुभिर्वादिता, सुरक्षिप्ता पुष्पवृष्टिस्तस्योपरि पतिता, तथेशी गगनवाणी जाता 'यदयं सत्यवादी हंसराजा जयतु जयतु ?' इति बदन्नेकः सम्यग्दृष्टियक्षस्तत्र प्रादुर्भूय नरनाथं कथयामास “हे राजन् ! तव सत्यवचनादहं तुष्टोऽस्मि, तव रिपुवर्गों मया सर्वोऽपि त्रासितोऽस्ति, यद्दिने च तत्र यात्रा भवति तदिनं चायेव वर्त्तते, ततस्त्वमस्मिन् विमाने समारोह ? येन तत्रावां जिननमनार्थ यावः," तत श्रुत्वा हृष्टो राजा विमानमारुह्य तत्क्षणमेव तत्र चैत्ये समागतः, ततोऽसौ स्नानं कृत्वा पुष्पाणि गृहीत्वा सुरभिवारिणा जिनविम्बप्रक्षालनमकरोत् । ततश्च धनसारमृगनाभिधुसृणयक्षकईमादिभिर्जिनपूजां विधाय गीतनृत्यवादित्रादिभिर्जिनयात्रामहोत्सवमकार्षीत.
ततो यक्षेण तत्क्षणमेव स राजा राजपुरे आनीय मुक्तस्तद्वैरिनृपश्च बद्धः ततो हंसराजा यक्षं विज्ञप्य तं वैरिनृपं मोचयामास. अथ यक्षेण निजसेवकानां चतुर्णा देवानामादिष्टं यद्देवसंबंधिभोगैरसौ नित्यमेव पोषणीयः, अस्य विनाश्च निवार्याः, इत्युक्त्वा यक्षो हंसनृपमापृच्छय स्वस्थाने गतः ॥ इति सत्योपरि हंसनृपकथा समाप्ता ॥
蒂能受端端端端端能鉴驚艷聯聯懿驚鑒驚鑒驚驚驚驚號號聯聯继继继
॥६३॥