________________
श्रीवर्द्धमान जिन देशना ॥६२॥
श्रीहंसराजकथा
整張染器泰拳器带器弟弟亲密亲密亲密亲密骆骆樂器张密密泰杂驅認
दिनेऽत्र संघः समागमिष्यति, तं बहुधनस्वर्णयुतं संघ लुंटयित्वा चिरकालागतदारिद्याय जलांजलिं दास्यामः. इति श्रुत्वा राजा चिन्तयति, "एते चौरा नूनमत्रस्थाः संघस्यानर्थ करिष्यन्ति. संघमध्यस्थसाधुसाध्वीनामपि दुःखं प्रापयिष्यन्ति, अथाहमत्रैकाकी कथं संघस्य रक्षां करोमि?" एवं राजा यावच्चिन्तातुरस्तिष्ठति तावत्केचित्सुभटा हस्तेषु दीपिका धृत्वा तत्रागत्य राजानं दृष्ट्वा परस्परं वदन्ति 'नूनमयमपि चौरो दृश्यते, कैश्चिदुक्तं 'नास्त्ययं चौरः, असौ तु कोऽपि महात्मा दृश्यते,' ततस्ते सुभटास्तं पृच्छन्ति " भो सत्पुरुष ! त्वया केचिच्चौरा दृष्टाः श्रुता वा? ते हि संघस्य लुष्टितुकामाः श्रूयन्ते, अतस्तच्चौरवृत्तांतमस्माकं कथय? इतः स्थानाद्दशयोजनैः श्रीपुराख्यं नगरं वर्तते, तत्र च रिपुमर्दनाख्यो राजास्ति, तेन राज्ञा | संघस्य कल्याणार्थ तेषां चौराणां मारणार्थ वयं प्रेषिताः स्मः, ततो चेत्त्वं जानासि तदास्माकं दर्शय ? येन तान्मारयित्वा वयं पुण्यभाजो भवामः." तत् श्रुत्वा हंसराजा चिन्तयति-चेदहं सत्यं कथयिष्यामि, तदा चौरमारणपापं मे लगिष्यति, यदि चासत्यं वक्ष्ये तदैते चौरा अत्र संघ लुष्टयिष्यन्तीति ध्यात्वा स निजबुद्धया कथयामास. “भो सुभटाचौराणां दृष्टादृष्टपृच्छायामत्रैव विलंबकरणेन युष्माकं न कापि सिद्धिभविष्यति, ययं तु तत्रैव संघमध्ये गत्वा संघस्य रक्षामेव कुरुत ! यतस्ते चौरा अपि तत्रैवागमिष्यन्ति.” तत् श्रुत्वा ते मुभटा अपि संघस्य सन्मुखमेव गताः.
अथ ते चौरा निकुंजाद्विनिस्सृत्य हंसनृपं नमस्कृत्य वदन्ति “भो सत्पुरुष ! निकुंजे उपविष्टा वयं भवता तु ज्ञाता एवास्मः, परं सुभटानामग्रे तदस्मद्वृत्तान्तस्याऽकथनतस्त्वमस्माकं प्राणदाता जातोऽसि, अतो धन्यस्त्वं कृतपुण्यस्त्वं, यदीदृशी तव हृदये दया वर्तते. अतः परं त्वमस्माकं जनकतुल्योऽसि” इति तस्य स्तुति विधाय ते चौराः स्वस्थानं जग्मुः.
ॐ
॥२॥