________________
श्रीवर्द्धमान जिन देशना ॥५ ॥
द्वितीयव्रत महिमा॥
聯發器聯籌器器密器滌器藤藤藤藤端藤藤藤藤蒸蒸器桑器藥器鉴器
मन्मनत्वं काहलत्वं, मूकत्वं मुखरोगिताम् । वीक्ष्याऽसत्यफलं कन्या-लीकाद्यसत्यमुत्सृजेत्॥५३॥
उ०-मूका जडाश्च विकला वागहीना वाग्जुगुप्सिताः । पूतिगन्धमुखाश्चैव जायन्तेऽनृतभाषिणः॥१॥ कन्यागौभूम्यलीकानि, न्यासापहरणं तथा । कूटसाक्ष्यं च पञ्चेति, स्थूलासत्यान्यकोर्तयन् ॥५४॥ सर्वलोकविरुद्धं यद्यद्विश्वसितघातकम् । यद्विपक्षश्च पुण्यस्य, न वदेत्तदसूनृतम् ॥५५॥ असत्यतो लधीयस्त्व-मसत्याद्वचनीयता । अधोगतिरसत्याच्च, तदसत्यं परित्यजेत् ॥५६॥ असत्यवचनं प्राज्ञः, प्रमादेनापि नो वदेत् । श्रेयांसि येन भज्यन्ते, वात्ययेव महादमाः ॥५७।। असत्यवचनाद्वैर-विषादाप्रत्ययादयः । प्रादुःषन्ति न के दोषाः, कुपथ्यायाधयो यथा ॥५८.। निगोदेष्वथ तिर्यक्षु, तथा नरकवासिषु । उत्पद्यन्ते मृषावाद-प्रसादेन शरीरिणः ॥५९॥ ब्रूयाड़ियोपरोधाद्वा, नासत्यं कालिकार्यवत् । यस्तु ब्रूते स नरकं, प्रयाति वसुराजवद् ॥६०॥ न सत्यमपि भाषेत, परपीडाकरं वचः। लोकेपि श्रूयते यस्मात् , कौशिको नरकं गतः ॥६१॥ अल्पादपि मृषावादा-द्रौरवादिषु संभवः । अन्यथा वदतां जैनी, वाचं त्वहह का गतिः ॥१२॥ ज्ञानचारित्रयोर्मूलं. सत्यमेव वदन्ति ये । धात्री पवित्रीक्रियते, तेषां चरणरेणुभिः ॥६३॥ अलीकं ये न भाषन्ते, सत्यव्रतमहाधनाः । नापराध्धुमलं तेभ्यो- भूतप्रेतोरगादयः ॥१४॥
आ०---अहिंसापयसः पालि-भूतान्यन्यव्रतानि यत् । सत्यभङ्गात्पालिभङ्गेऽनर्गलं विप्लवेत तत् ॥१॥
॥५७॥