________________
Re * * *2800*
श्री वर्द्धमान वंदित्वा चाग्रे उपविष्टः, गुरुणापि च धर्मोपदेशो दत्तः, हरिवलोऽपि धर्म श्रुत्वा संसारासारतां विज्ञाय भार्यायुतो दीक्षामाजिन देशना का ससाद. ततः सम्यगरीत्या दीक्षा प्रतिपाल्य केवलज्ञानमुत्पाद्य हरिबलराजर्षिर्मुक्ति ययौ, ॥५६॥
एवं हरिबलकथानकं श्रुत्वा भो भव्या जीवदयाविषये आदरं कृत्वा प्रथमवतं पालनीयं.
॥इति श्रीप्राणातिपातविरमणव्रतोपरि हरिबलकथा समाप्ता ॥
श्रीहसि बलकथा।
*******
*
इति श्रीजिनवरमुखात् श्रुत्वा हृष्ट आनंदगृहपतिः श्रावकभंगेन प्रथमाणुव्रतं प्रत्यपद्यत. तथाहि-निरपराधिजीवानां * मारणे मम नियमोऽस्तु, सादिजीवानां सापराधानां निर्दयतया मारणेऽपि मम नियमः, एकेंद्रियादिजीवानां च यत्ना,
इति प्रथमव्रतं स भावेन गृह्णातिस्म. प्रभुणोक्तं 'भो आनंद ! श्रमणोपासकेन पुनः प्रथमव्रतस्य पंचातिचारा न समाचरितव्याः, तद्यथावह १ बंध २ छविच्छे ए ३। अइभारे ४ भत्तपाणबुच्छए ५॥ पढमवयस्प्तइयारे।, पडिक्कमे देसियं सव्वं ॥१॥
व्याख्या-वधो निर्दयतया कशादिभिस्ताडनं प्रथमः १, बंधो रज्ज्वादिभिनिरपेक्षतया दृढबंधनं २ छविच्छेदः, छविः शरीरं तस्य छेदः शस्त्रण कर्णादिकर्तनं वृषणच्छेदनादि च ३ अतिभारो गवादीनां स्कंधे पृष्टे च सामर्थ्यातिरिक्तभारारोपणं ४ भक्तपानव्यवच्छेदा वृषभादिनां वेलाप्राप्तावपि अन्नजलधासनिवारणा ५ इति प्रथमवतस्य पश्चातिचारा ज्ञेयाः.
अथ द्वितीयाणुव्रतमाह
*********8888
॥५६॥