________________
श्री वर्द्धमान जिन देशना ॥४१॥
श्रीहरिबलकथा ॥
音器婆聯张器樂器幾號號號號號號器器號號器蹤器跳號號器器端勞蒂第
भोजनमंडपे उपविष्टो राज्ञा च स्वयं परिवेषितः, वसंतश्रीरूपं दृष्ट्वा राजा मनसि चिन्तयति 'किमेषा स्वर्गादवतीर्णाऽथवा पातालादागता किन्नरी वा विद्याधरी वा कामस्य पनी दृश्यते ? ईदृगरूपं मया कुत्रापि न दृष्टं', एवं कामाग्निना दग्धो राजा दध्यौ 'योषा स्त्री मम न मिलति तदा मम जीवितं राज्यं च वृथा, परं हरिबले जीवति सति सा न लप्स्यते, अत: केनाप्युपायेनेनं मारयामीति' स हृदि विचारितवान्. अथ हरिबलोऽपि भोजनं कृत्वा पत्नीयुतो गृहे समागतः, राज्ञापि स्वचिन्तितं कार्य मंत्रिणे निवेदितं, मंत्री तु तदृष्टविचाराद्राजानं न निवारयामास, तेन च राजाधिकाधिकं मदनज्वालया जज्वाल. अन्यदा राजा सभायां स्थितो मंत्रिणं प्रत्याह-'भो सभासदः श्रूयन्तां ? अधुनाहं मम पुत्र्या उद्वाहं कतुकामोऽस्मि. मम च लंकाधिपतिर्विभीषणेन सह महती मंत्री वर्तते, ततो विवाहोत्सवे बिभीषणं निमंत्रयितुं भवतां मध्यात्को लंकां गमिष्यति ? तत् श्रुत्वा सर्वेऽपि सभासदो तूष्णींस्थिताः, ततो राजा हरिबलस्य मुखं पश्यति, तदा दुष्टात्मा मंत्री बदति 'हे राजन् ! हरिबलसमानो विषमकार्यकर्ता भवद्राज्येऽन्यः कोऽपि न दृश्यते, यद्यपि सर्वेऽपि भवन्मत्रिणो भवत्प्रसादेन सुखं भुअन्ते, परं विषमकार्यमपि ये कुर्वन्ति ते तु स्तोका एव. अत एष आदेशो हरिबलस्यैव दीयतां, गजानां भारं गजा एव वहति' इति | मंत्रीवचः श्रुत्वा कपटी राजा वभाण 'भो हरिबल ! इदं कार्य त्वां विनान्य कोऽपि कर्तुं समर्थों नास्ति. तत इदं कार्य त्वमेव कुरु?' दाक्षिण्येन हरिबलेनापि नृपवचनमंगीकृतं. यत उत्तमपुरुषाणां दाक्षिण्यमेव प्रधानं.
अथ हरिबलो गृहे समागत्य सर्व वृत्तांतं वसंतश्रियै कथयामास, तत् श्रुत्वा राजपुत्री विषादं प्राप्ता सती कथयामास 'हे स्वामिन् ! नूनं तदा भोजनसमयवीक्षितमद्रूपमोहितेन राज्ञा भवतां मारणार्थमेवायमनर्थः प्रारब्धोऽस्ति. एतत्साहसं
號路路;海柴號號號號聯柴柴柴聯藥藥藥藥藥幾號幾號號號張榮發够继
॥४१॥