________________
श्री वर्द्धमान जिन देशना ॥४०॥
श्रीहरिबलकथा॥
务器端藥器暴涨涨號號號號號號號號聯蒂樂器樂器器鑑聽器器继錄器
'सत्पुरुष ! अधुना शुभलग्नं विद्यते, अतो मां परिणय ?' ततो हरिबलेन सा गांधर्वविवाहेन परिणीता,
अथ तावग्रे चलन्तौ ग्रामानुग्राम लंघयन्ती कस्मिंश्चिन्नगरे गतौ, ततो राजपुच्या वचनेन तेन हरिबलेन शुभलक्षणोपेताश्चत्वारस्तुरगाः क्रीताः. क्रमेण तौ नंदनवनतुल्यारामालंकृते वहुकूपतटाकादिमंडिते तोरणपताकाद्युपेतजिनमंदिरविराजितेऽतिमनोहरे विलासपुराख्यनगरे जग्मतुः. तत्र चैकं सप्तभौम प्रासादं भाटकेन गृहीत्वा तौ तस्थतुः, तत्र हरिबलो राजसुताया सह भोगान् भुआनः सुखेन कालं गमयांचकार. _अथान्यदा हरिबलश्चिन्तयति 'कुत्राहमतिनिन्दनीयकुलोत्पन्नः? क चैषा राजपुत्री? नूनं पुण्येनैवायं योगः संजातोऽस्ति, ततो लक्ष्याः फलं गृह्णामीति' ध्यात्वा स हरिबलो दीनानाथदुःखितानां निरंतरं दानं ददाति, तेन च तस्य नगरमध्ये प्रसिद्धिर्जाता, अथवा दानात्कस्य प्रसिद्धिन जायते ? यतः
पात्रे धर्मनिबंधनं तदितरे प्रोद्यद्दयाख्यापकं। मित्रे प्रीतिविवईनं रिपुजने वैरापहारक्षमं ॥ भृत्ये भक्तिभरावहं नरपती सन्मानसंपादकं । भट्टादौ च यशस्करं वितरणं न क्वाप्पहो निष्फलं ॥
अथ तन्नगरराज्ञा मदनवेगेन तस्य प्रसिद्धिं श्रुत्वा भृत्यान् संप्रेष्य स आकारितः, हरिबलोऽपि तत्र समागतः, राज्ञा बहादरपूर्वकमासने निवेशितः कुशलवार्ता च पृष्टा, परस्परमतीव प्रीतिर्जाता, ततः प्रत्यहं हरिबलो राजद्वारे समेति. राजापि तं स्नेहेनालापयति.
अन्यदा राज्ञा परमप्रीत्या स भार्यायुतो भोजनार्थ स्वगृहे निमंत्रितः, हरिबलोऽपि भार्योपेतो राजगृहे समागत्य
1
॥४०॥