________________
श्रीं वर्द्धमान जिन देशना ॥४२॥
भवतामंगीक न युज्यते, यतोऽविमृश्यकृतं कार्य स्त्रविनाशायैव भवति उक्तं चसहसा विदधीत न क्रिया-मविवेकः परमापदां पदं ।
हसिना 'हे मु! त्वं किमयुक्त
वृणुते हि विमृश्यकारिणं । गुणलुब्धाः स्वयमेव संपदः ॥ १ ॥ अतोऽद्यापि यूयं राज्ञे निवेदयध्वं यदेतत्कार्यं मया कर्तुं न शक्यते तन् वदसि ? सत्पुरुषा हि प्रतिपन्नं प्राणांतेऽपि न त्यजति उक्तं च१छिज्जउ सीसं अह होउ । बंधणं चयउ सम्बहा लच्छी । पडिवन्न पालणे पुण, सप्पुरिसान पच्छिमा होइ ॥ १ ॥ हे प्रिये ! अहं नूनं तत्र गमिध्यामि यद्भाव्यं तद्मविध्यति न्यायप्रवृत्तानां विषममपि कार्यं समं भवति, परं कामांधो राजा त्वां हरिष्यतीत्येकैव चिन्ता मम मनसि वर्त्तते' तत् श्रुत्वा तयोक्तं-'हे स्वामिन्! तद्विषये भवद्भिर्मनागपि न भेतव्यं भवतां मार्गे कल्याणमस्तु, सर्वेऽपि पंथानो निर्विधा भवंतु भवज्जीवितं च भवद्भिः प्रयत्नतो रक्षणीयं यतः - जीवन् भद्राण्यवाप्नोति, जीवन् पुण्यं करोति च । मृतस्य देहनाशेन धर्माधुपरमस्तथा ॥ १ ॥
इति भार्यावचनं श्रुत्वा हरवलो हृष्टः सन् त्रियामापृच्छय दक्षिणदिशि चलितः, ग्रामनगराण्युपश्च जरुधितटे प्राप्तः, उद्यतां जनानां किमपि दूरं नास्ति तत्र चतुर्दिक्षुच्छलकल्लोलमालाकुलितं भयंकराकारं समुद्र होः सन् मनसि चिन्तयति 'प्रियाहं निषिद्धोऽपि भवितव्यता योगेनाहमात्र प्राप्तः अथैवं जलधिं कथं लंघयामि १ कथं च लंकायां गमिष्यामि ?' १ छिद्यतु शीर्ष अथवा भवतु बन्धनं त्यजतु सर्वथा लक्ष्मी, प्रतिपन्नपालने पुनः सत्पुरुषां न पश्चिमा भवन्ति ॥
**********
श्रीहरि - बलकथा ॥
॥४२॥