________________
श्री वर्द्धमान जिन देशना ॥३७॥
श्रीहरिबलकथा॥
出亲密亲密亲密亲密幣樂器器器樂器密密器樂器需
मपालनार्थ किमपि चिह्न कृत्वा स पश्चाजले मुक्तः, पुनरपि तेन जालं क्षिप्तं, तदा स एव मीनस्तत्र समागतः, एवं संध्यां यावत्स एव मीनः समापतितो मुक्तश्च, तथापि तस्य मनसि विषादो न जातः, एवं संकटे पतितेनापि तेनात्मीयं व्रतं न त्यक्तं. संध्यासमये च स चिन्तयति नूनमेतद्भव्यं जातं यन्मया निजं व्रतं सम्यग पालितं. इतः कोऽपि त्रिदशः प्रकटीभूय तं कथया| मास 'भो ! हरिबल मां त्वमुदध्यधिष्ठायकं देवं जानीहि ? अवधिज्ञानेन तव नियमं ज्ञात्वा ते परीक्षार्थ मत्स्यरूपं च कृत्वा मया त्वं संध्यावधि परीक्षितः, परं त्वया नियमभंगो न विहितः, अतस्त्वं धन्योऽसि, कृतार्थाऽसि, तव जीवितं च सफलं जातं, यदीदृशेऽपि संकटे त्वया निजनियमोन विराधितः संसारे केपि व्रतमेव न गृह्णति, केचिच्च गृहीत्वा न निर्वहन्ति. परं गृहीत्वा ये निर्वहन्ति त एव सत्पुरुषास्त्वत्सदृशा ज्ञेयाः, अतस्त्वं वरं वृणु, यतोलोके देवानां दर्शनं मोघं न भवति. उक्तं च
अमोघा वासरे विद्यु-दमोघं निशि गर्जितं ॥ सज्जल्पनममोघं च, अमोघं देवदर्शनं ॥१॥
तत् श्रुत्वा धीवरो हृष्टः सन्नुबाच, 'हे देव! यदि त्वं तुष्टोऽसि तदेमां ममापदं दूरीकुरु ? एवमस्त्वित्युक्त्वा सुरोऽदृश्योब| भूव. अथ मत्स्याऽलाभात्स्वभार्याया भीतो धीवरो रात्रौ देवकुले स्थिता मनसि चिन्तयति 'यदि मयैकजीवरक्षातोऽपीग् | फलं प्राप्तं तर्हि सर्वजीवानां ये रक्षां कुर्वन्ति तेषां सर्वसुखप्राप्तौ का संदेहः ? अथ कथमप्येषा ममापद् याति तर्हि विषवल्लीसमानामेतां हिंसां त्यजामीति' चिंतयन् स्थितः.
इतस्तन्नगरनृपसुता वसंतश्रीनगरशोभां पश्यन्ती गवाक्षे स्थिता सती हरिबलनामानमेकं कंदर्पाकारं श्रेष्ठिपुत्रं पथि यान्तं पश्यतिस्म. तं दृष्ट्वा मदनवाणविह्वलीभूता निजदास्या निजपार्श्वे तं समाहृय सन्मानपुरस्सरं स्नेहेन मधुरवचनैरिदमवा
॥३७॥