________________
श्री वर्द्धमान जिन देशना ॥३६॥
********
सहविलो मीननिष्कासनार्थं प्रत्यहं नद्यां गच्छति मोनांश्च विक्रीयाजीविकां करोति, अथैकदा स यावन्नदीसमीपे समागतस्तावदेकं साधुं तरुच्छायायामुपविष्टं ददर्श, तत्रागत्य साधुं नमस्कृत्याग्रे उपविष्टः, तदा मुनिनोक्तं भो भद्र ! त्वं faraft धर्मस्य स्वरूपं जानासि ? तेनोक्तं स्वामिन्नहमेतन्मात्रं जानामि यत्कुलाचारादपरः कोऽपि धर्मो नास्ति, यतो यः कुलाचारः स एव धर्मः. मुनिरवादीत् भो धीवर ! एतन्मूहानां पामराणामेव वचनं वर्त्तते, यदि कुधर्मोऽपि चेद्धर्मो भवेत्तदा धर्मस्य नामापि नष्टं किंच यदि ते कुलधर्म एव प्रमाणं तदा कुलक्रमादागतं दारिद्र्यदुःखं सुपुत्रैर्न दूरीक्रियते. अतो जीवदयैव धर्मो ज्ञेयः यत. - १भवजलहिए तरणी । दुहमहपव्वयविभेअणे असणी ॥ मणवंच्छिअकरणी। जीवदयात्रिक्क जयजणणी ॥२॥
ततो भो धीवर ! चेत्वं सुखं वांछसि तर्हि निजचित्ते जीवदयां स्थापय. तत् श्रुत्वा धीवरोऽवादीत् 'हे भगवन् ! भवद्भिर्यो दयाधर्मः कथितः स तथ्य एव नान्यथा, परमस्मादृशां धीवरकुलोत्पन्नानां जीवदयाधर्मः कुतः प्राप्यते ? यतो दरिद्रिणां गृहे चक्रिभोजनं न भवेत् मया तु दिवारात्रौ जीववध एव क्रियते मुनिरुवाच 'भो धीवर ! यदि त्वं सर्वथा जीवदयां पालयितुमसमर्थस्तदा प्रथमजाले यो मीनः पतेत् स त्वया न मारणीयः'. हरिबलेनापि हर्षतस्तद्व्रतं प्रतिपन्नं ततोऽसौ मुनिं नत्वात्मीयकृत्यकरणाय ययौ, स्वीकृतं व्रतं भव्यरीत्या पालयति स्वकुलाचारं च करोति.
अथन्यदा स धीवरो जालं गृहीत्वा नद्यां समाययौ, नद्यां च जालं क्षिप्तं, तत्रैको वृद्धमीनो पतितः, हरिबलेन निजनिय१ भवजलधौ तरणी, दुःखमहापर्वतविभेदने अशनिः मनवांछित्तकरणी जीवदया एक जगजननी ॥
************
श्रीहरि - बलकथा
॥३६॥