________________
श्री वर्द्धमान जिन देशमा ॥३५॥
बलकथा
参議勞蒂器继器端端聽器謠樂器器器誘蟲器跳继器端聽器崇懿驚
कोदण्डदण्डचक्रासि-शूलशक्तिधराः सुराः । हिंसका अपि हा कष्टं, पूज्यन्ते देवताधिया ॥४९॥ मातेव सर्वभूताना-महिंसा हितकारिणो। अहिंसैव हि संसार-मरावमृतसारणिः॥५०॥ अहिंसा दुःखदावाग्निं-प्रावृषेण्यघनावली। भवभ्रमिरुगातना-महिंसा परमौषधी॥५१॥ दीर्घमायुः परं रूप-मारोग्यं श्लाघनीयता । अहिंसायाः फलं सर्व, किमन्यत्कामदैव सा ॥५२॥ ___ आ०-हेमाद्रिः पर्वतानां, हरिरमृतभुजा, चक्रवर्ती नराणां, शीतांशुयॊतिषां स्वस्तरुरवनिरुहां, चण्डरोचिहाणाम् ।
सिन्धुस्तोयाशयानां, जिनपतिरसुरासुरमाधिपानां, यद्वद्वताना-मधिपतिपदवीं यात्यहिंसा किमन्यत् ॥१॥
इति श्रावकभङ्गेन ये भव्याः स्तोकामपि जीवदयां पालयन्ति ते हरिबलवदतिप्रभूतां लक्ष्मी लभन्ते, इति श्रुत्वाऽऽ नन्दः कथयामास हे भगवन् ! स हरिबलः कः ? तेन जीवदया च कथं पालिता? ऋद्धिश्च पुनः कथं प्राप्ता ? श्रीवीरजिनेन्द्रोऽवादीत् भो श्रेष्ठिन् ! सावधानीभूय हरिबलस्य चरित्रं यथाभूतं शृणु.
अस्मिन्नेव भरतक्षेत्रे काश्चनपुराभिधं पुरमस्ति, तत्र च वसंतसेनो राजा राज्यं करोति, तस्य वसन्तसेनाख्या राज्ञी वर्तते, तयोर्वसन्तश्रीः पुत्री बभूव. तत्रैव कांचनपुरे हरिवलनामै को मात्स्यिको वसति, तस्य प्रचण्डाभिधा पत्नी वर्त्तते. सातीवरोषणा कलहप्रिया कूपगल्ला प्रलम्बदशना श्यामांगी ऊष्ट्रजिहा प्रियं पति च कठोरभाषिणी वर्तते, तेन हेतुना हरिबलेन स्वग्नेअपि पत्नीसंबन्धिसुखं न प्राप्त. उक्तं च
कुग्रामवासः कुनरेन्द्रसेवा । कुभोजनं क्रोधमुखी च भार्या। कन्याबहुत्वं च दरिद्रता च । षड् जीवलोके नरका भवंति ॥१॥
举聯端端端樂樂器樂器端端聯聯端端樂器樂藥藥端端端聯聯樂器会
॥३५॥