________________
श्री वर्द्धमान जिन देशना ||३४||
*******
'सव्वे वि जीवा इच्छंति, जीविउँ न मरिजिउं । तम्हा पाणिवहं घोरं, निग्गंथा वञ्जयंति णम् ||२|| देवोपहारव्याजेन, यज्ञव्याजेन येऽथवा । घ्नन्ति जन्तून् गतघृणा-घोरां ते यान्ति दुर्गतिम् ॥३९॥ शमशीलदयामूलं हित्वा धर्म जगद्धितम् । अहो हिंसाऽपि धर्माय, जगदे मन्दबुद्धिभिः ॥४०॥ हविर्यच्चिररात्रा, यच्चानन्त्याय कल्पते । पितृभ्यो विधिवद्दत्तं तत्प्रवक्ष्याम्यशेषतः ॥ ४१ ॥ तिलैव्रीहियवैर्मा-रद्भिर्मूलफलेन वा । दत्तेन मासं प्रीयन्ते विधिवत्पितरो नृणाम् ॥ ४२ ॥ st Hit Heritन, त्रीन् मासान् हारिणेन तु । औरभ्रेणाथ चतुरः, शाकुनेनेह पञ्च तु ॥४३॥ षण्मासांछागमांसेन, पार्षतेनेह सप्त वै । अष्टावेणस्य मांसेन, रौरवेण नवैव तु ॥ ४४ ॥ दशमासांस्तु तृप्यन्ति, वराहमहिषामिषैः । शशकूर्मयोमसेन, मासानेकादशैव तु ॥ ४५ ॥ संवत्सरं तु गव्येन पयसा पायसेन तु । वार्षीणसस्यमांसेन, तृप्तिद्वादशवार्षिकी ॥ ४६ ॥
उ० – त्रिपिवं त्विन्द्रियक्षीणं, श्वेतं वृद्धप्रजापतिम् । वार्षीणसं तु तं प्राहु-र्याज्ञिकाः पितृकर्मसु ॥१॥ इति स्मृत्यनुसारेण, पितॄणां तर्पणाय या । मूढैर्विधीयते हिंसा, साऽपि दुर्गतिहेतवे ॥ ४७ ॥ उ० – मृतानामपि जन्तूनां, यदि तृप्तिर्भवेदिह । निर्वाणस्य प्रदीपस्य, स्नेहः संवर्धयेच्छिखाम् ॥१॥ यो भूतेष्वभयं दद्याद् भूतेभ्यस्तस्य नो भयम् । यादृग्वितीर्यते दानं तादृगासाद्यते फलम् ॥ ४८ ॥ (१) सर्वे जीवा अपि इच्छन्ति जीवितुं न मर्तुम् । तस्मात् प्राणिबधं घोरं निर्ग्रन्था वर्जयंति ॥ १ ॥
अहिंसा - धिकारः
॥३४॥