________________
श्री वर्द्धमान जिन देशना ॥३३॥
麥味粉1號
हिंसा विघ्नाय जायेत, विघ्नशान्त्यै कृताऽपि हि । कुलाचारधियाऽप्येषा कृता कुलविनाशनी ॥ २९ ॥ अपि वंशक्रमायातां यस्तु हिंसां परित्यजेत् । स श्रेष्ठः सुलस इव, कालसौकरिकात्मजः ||३०| दमो देवगुरूपास्ति-दनमध्ययनं तपः । सर्वमप्येतदफलं हिंसां चेन्न परित्यजेत् ॥ ३१ ॥ विश्वस्तो मुग्धधोर्लोकः, पात्यते नरकावनौ । अहो नृशंसैर्लोभान्धै-हिंसा शास्त्रोपदेशकैः ॥३२॥ उ०- एकं हि चक्षुरमलं सहजो विवेक- स्तद्वद्भिरेव सह संवसतिर्द्वितीयम् ।
एतद्द्वयं भुवि न यस्य स तत्वतोऽन्ध-स्तस्यापमार्गचलने खलु कोऽपराधः १ ॥१॥ यज्ञार्थं पशवः सृष्टाः, स्वयमेव स्वयंभुवा । यज्ञोऽस्य भूत्यै सर्वस्य, तस्माद्यज्ञे वधोऽवधः ||३३|| औषध्यः पशवो वृक्षा- स्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितं पुनः ||३४|| मधुपर्के च यज्ञे च पितृदैवतकर्मणि । अत्रैव पशवो हिंस्या - नान्यत्रेत्यब्रवीन्मनुः ॥ ३५ ॥
वर्थेषु पशून् हिंसन् वेदतत्त्वार्थविद्विजः । आत्मनं च पशूंश्चैव, गमयत्युत्तमां गतिम् ॥ ३६ ॥ ये चकुः क्रूरकर्माणः, शास्त्रं हिंसोपदेशकम् । क्व ते यास्यन्ति नरके, नास्तिकेभ्योऽपि नास्तिकाः ||३७| वरं वराश्चार्वाको, योऽसौ प्रकटनास्तिकः । वेदोक्तितापसच्छन- च्छन्नं रक्षो न जैमिनिः ||३८|| उ०- नाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया, सन्तुष्टस्तृक्षणक्षणेन सततं, साधो न युक्तं तत्र । स्वर्गे यान्ति यदि त्वया विनिहता, यज्ञे ध्रुवं प्राणिनो यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः ॥ १ ॥
अहिंसाधिकारः
॥३३॥