________________
श्री वर्द्धमान
जिन देशना ॥३२॥
तदेवमात्मनः सिद्ध, हिंसा किं नोपपद्यते । तदस्याः परिहारेणा हिंसाव्रतमुदीरितम् ॥ २९ ॥
आत्मवत्सर्वभूतेषु, सुखदुःखे प्रियाप्रिये । चिन्तयन्नात्मनोऽनिष्टां हिंसामन्यस्य नाचरेत् ॥२०॥ उ० – श्रूयतां धर्म्मसर्वस्वं श्रुत्वाचैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥१॥
निरर्थकां न कुर्वीत, जीवेषु स्थावरेष्वपि । हिंसामहिंसाधर्मज्ञः, काङ्क्षन्मोक्षमुपासकः ॥ २१ ॥ प्राणी प्राणितलोभेन, यो राज्यमपि मुञ्चति । तद्वधोत्थमघं सर्वो-वदानेऽपि न शाम्यति ॥ २२ ॥ उ०- मार्यमाणस्य हेमाद्रिं राज्यं वाथ प्रयच्छतु । तदनिष्टं परित्यज्य, जीवो जीवितुमिच्छति ||१||
?
वने निरपराधानां वायुतोयतृणाशिनाम् । निघ्नन् मृगाणां मांसार्थी, विशिष्येत कथं शुनः १ ॥ २३ ॥ दीर्यमाणः कुशेनापि यः स्वाङ्गे हन्त दूयते । निर्मन्तृन् स कथं जन्तृ- नन्तयेन्निशितायुधैः ॥ २४॥ उ०- रसातलं यातु यदत्र पौरुषं, क्व नीतिरेषाऽशरणोद्यदोषवान्। निहन्यते यद्वलिनातिदुर्बलो, हहा महाकष्टमराजकं जगत् ॥ १ ॥ निर्मातुं क्रूरकर्माणः, क्षणिकामात्मनो धृतिम् । समापयन्ति सकलं, जन्मान्यस्य शरीरिणः ॥ २५ ॥ उ०- योऽश्नाति यस्य तन्मांस-मुभयोः पश्यतान्तरम् । एकस्य क्षणिका तृप्तिः प्राणैरन्यो वियुज्यते ॥ १ ॥ म्रियस्वेत्युच्यमानोऽपि देही भवति दुःखितः । मार्यमाणः प्रहरणैर्दारुणैः स कथं भवेत् ? ॥ २६॥ श्रूयते प्राणिघातेन, रौद्रध्यानपरायणौ । सुभूमो ब्रह्मदत्तश्च सप्तमं नरकं गतौ ॥ २७ ॥ कुणिर्वरं वरं पगु-रशरीरी वरं पुमान् । अपि सम्पूर्णसर्वाङ्गो, न तु हिंसापरायणः ॥ २८ ॥
अहिंसाधिकारः
॥३२॥