________________
श्री वर्द्धमान जिन देशना ॥३१॥
अहिंसाधिकारः
端端樂器器器器端端器藥端藥鱗器端端端藥藥錄器带跳一跳的
किं च सौख्यवता घाते, धर्मः स्यात्पापवारणात् । इत्थं विचार्य हेयानि, वचनानि कुतीर्थिनाम् ॥१५॥ चार्वाकाः प्राहुरात्मैव, तावन्नास्ति कथश्चन । तं विना कस्य सा हिंसा, कस्य हिसाफलं भवेत् ॥१६॥ भूतेभ्य एव चैतन्यं पिष्टादिभ्यो यथा मदः । भूतसंहतिनाशे च, पश्चत्वमिति कथ्यते ॥१७॥ आत्माऽभावे च तन्मूलः, परलोको न युज्यते । अभावे परलोकस्य, पुण्यापुण्यकथा वृथा ॥१८॥ तपांसि यातनाश्चित्राः संयमो भोगवश्वना । इति विप्रतिपत्तिभ्यः, परेभ्यः परिभाष्यते ॥१९॥ स्वसंवेदनतः सिद्धः, स्वदेहे जीव इष्यताम् । अहं दुःखी सुखी वाह-मिति प्रत्यययोगतः ॥२०॥ घटं वेश्यहमित्यत्र, त्रितयं प्रतिभासते। कर्म क्रिया च, कर्ता च, तत्कर्ता किं निषिध्यते ॥२१॥ शरीरमेव चेत्कर्ते, न कर्तृ तदचेतनम् । भूतचैतन्ययोगाच्चेञ्चेतनं तदसङ्गतम् ॥२२॥ मया दृष्टं श्रुतं स्पृष्टं, घ्रातमास्वादितं स्मृतम् । इत्येककर्तुकाभावात् , भूतचिद्वादिनः कथम् ॥२३॥ स्वसंवेदनतः सिद्धे, स्वदेहे चेतनात्मनि । परदेहेऽपि तसिद्धि-रनुमानेन साध्यते ॥२४॥ बुद्धिपूर्वी क्रियां दृष्ट्वा, स्वदेहेऽन्यत्र तद्गतिः। प्रमाणबलतः सिद्धा, केन नाम निवार्यते ॥२५॥ तत्परलोकिनः सिद्धौ, परलोको न दुर्घटः। तथा च पुण्यपापादि, सर्वमेवोपपद्यते ॥२६॥ तपांसि यातनाश्चित्रा, इत्याधुन्मत्तभाषितम् । सवेतनस्य तत्कस्य, नोपहासाय जायते ॥२७॥ निर्बाधोऽस्ति ततो जीवः, स्थित्युत्पादव्ययात्मकः । ज्ञाता द्रष्टा गुणी भोक्ता, कर्त्ता कायप्रमाणकः ॥२८॥
是柴榮器端器茶器聯號號號號柴柴柴藤藤藤聯號装跳跳跳弟弟一张继
॥३१॥