________________
श्री बर्द्धमान जिन देशना ॥३०॥
अहिंसाऽधिकारः
密聯验爸密密游路路路路路路路遊帶柴柴柴静坐带带带带带带带给
आ०-यामेकान्तिको भेदः, सम्मतो देहदेहिनोः। तेषां देहविनाशेऽपि, न हिंसा देहिनो भवेत् ॥१॥ अभेदेकान्तवादेऽपि, स्वोकृत देहदेहिनोः। देहनाशे देहिनाशात् परलोकोऽस्तु कस्य वै ॥२॥ भिन्नाभिन्ननया तस्मा-जीवे देहात्पतिश्रुते । देहनाशे भवेत्पीडा, या तां हिंसां प्रचक्षते ॥३॥ दुःखोत्पत्तिर्मनक्लेश-स्तत्पर्यायस्य च क्षयः। यस्यां स्यात्सा प्रयत्नेन, हिंसा हेया विपश्चिता ॥४॥ प्राणी प्रमादनः कुर्या-द्यत्प्राणव्यपरोपणम् । सा हिंसा जगद प्रा.-ीजं संसारभूरुहः ॥५॥ शरीरी म्रियतां मा वा, ध्रुवं हिंसा प्रमादिनः । सा पाणव्यपरापेऽपि, प्रमादरहितस्य न ॥६॥ जीवस्य हिंसा न भवे-नित्यस्यापरिणामिनः । क्षणिकस्य स्वयं नाशात् , कथं हिंसोपपद्यताम् ।।७।। नित्यानिन्ये नतो जीवे, परिणामिनि युज्यते। हिंसा कायवियोगेन, पीडातः पापकारणम् ॥८॥ केचिद्वदन्ति इन्तव्याः, प्राणिनः प्राणिघातिनः। हिंस्रस्यकस्य घाते स्या-द्रक्षणं भूयसां किल ॥९॥ तदयुक्तमशेषाणां, हिंस्रत्वात्माणिनामिह । हन्तव्यता स्यात्तल्लाभ-मिच्छोर्मूलक्षतिः स्फुटा ॥१०॥ अहिंसा सम्भवो धर्मः, स हिंसातः कथं भवेत् । न तोयजानि पानि, जायन्ते जातवेदसः ॥११॥ पापहेतुर्वधः पापं, कथं छेत्तुमलं भवेत् । मृत्युहेतुः कालकूट, जीविताय न जायते ॥१२॥ संसारमोचकास्वाहुदखिना वध इष्यताम् । विनाशे दाखिनां दुःख-विनाशो जायते किल ॥१३॥ नदप्यसाम्प्रतं ते हि, हता नरकगामिनः। अनन्तेषु नियोज्यन्ते, दुःखेषु स्वल्पदुःखकाः ॥१४॥
॥३०॥