________________
श्रीहरिवलकथा ॥
श्री वर्धमान दी. 'हे सत्पुरुष ! अद्यप्रभृति मम प्राणास्त्वदायत्ता एवं वर्तते, अतो भो हरिवल ! इत आवां देशांतरे गत्वा विवाहं विधाय जिन देशना भोगान् भुंजाबहे', तेनापि कामवशेन राजपुत्र्यास्तद्वचनमगीकृतं. ॥३८॥
अथ यत्र देवकुले हरिबलमात्स्यिकः सुप्तोऽस्ति तदेव स्थानं दैवयोगात्तया तस्य संकेतितं, कथितं च त्वयाऽद्यरात्री तत्र स्थेयं, अहमपि मम स्वर्णरत्नादि गृहीत्वा रथारूढा तत्रैव रात्रौ समागमिष्यामीति' निगद्य तया स विसृष्टः. अथ स श्रेष्टिपुत्रो रजन्यां तत्र गंतुकामो वस्त्रादि लात्वा यावद्गृहानिस्सरति तावत्कर्मानुसारतस्तस्यैवं मतिरुत्पन्ना को जानात्यग्रे किं भवियति ? अविमृश्य कार्ये कृते जीवितव्यनाशो भवेत्, चेत्कदाचिद्राजेदं जानीयात्तदा सकुटुंबं मां स हन्यात्. नूनमेषा राजपुत्री विषवल्लीतुल्यास्ति, अनया सह मे प्रयोजनं नास्ति, कः पुमान् जानन्नग्निशिखां लंवयेदिति' ध्यात्वा स पश्चादागत्य | निजस्थाने सुप्तः. अथ राजसुता मणिकनकरूप्यरत्नादिभी रथं भृत्वा रात्री संकेतस्थाने समागत्यावादीत 'किमत्र देवकुले हरिबल आगतोऽस्ति?
अथ तत्र स्थितेन हरिबलेनैताममृततुल्यां वागीं श्रुत्वा प्रमोदतो हुंकारः कृतः. तदा राजपुत्र्योक्तं तर्हि भो हरिवल! त्वं ॐ तूर्ण रथे समागच्छ ? देशांतरगतयोरावयोमनोरथाः सफला भविष्यति.' तत् श्रुत्वा हरिवलेन चिन्तित 'मत्तुल्यनामा कोऽप्यन्यो
नरोऽनया संकेतितो ज्ञायते, तं नरं चेयमामंत्रयति. नूनं मम पुण्यैरेवैषा कामिनी समानीतास्ति, अतोऽनया सह गच्छामि, अग्रे तु यद्भाव्यं तद्भविष्यतीति' ध्यात्वा स रथे चटितस्तुरगौ प्रेरयामास. मार्गे गच्छन्ती सा वाला तस्य पीयपसदृशैर्वचनैरालापयति परं स हरिबलो मौनं विधाय हुंकारमात्रमेव भगति. तदा सा राजपुत्री चिन्तयति नूनमस्य मातापित्रोविरह एव बाधते,
藥端端聽器聽聽聽器 聯器端端端端端端端藥器器誘器藥器樂器貓
*
॥३८॥