________________
श्री वर्द्धमान जिन देशना ॥२७॥
*****ck =
पालयितुमसमर्था, ततो गृहस्थैव धर्म करिष्यामीति विचिन्त्य पष्टाष्टमदशमद्वादशपक्षक्षपणमासक्षपणादि कुर्वन्ती क्रमेण सा क्षीणदेहा जाता, अन् चाननं विधाय शुभभ्यानेन कालं कृत्वा सौधर्मदेवलोके सुरत्वेनोत्पन्ना ततश्रयुत्वा त्वं विप्रस्य विद्युत्प्रभाभिधा सुता जाता.
स माणिभद्रश्रेष्ठी च कृत्वा तस्मिन्नेव सौधर्मे देवो जातः, ततश्च्युत्वा श्रावककुले मनुष्यो जातः, तत्रापि धर्म कृत्वा नागकुमारे मुरो जातः, अवधिज्ञानेन च त्वां ज्ञात्वा मोहेन तव वात्सल्यं कुरुते. कुलधरश्रेष्ठिगृहे त्वया पूर्वमज्ञानेन यत्पापं कृतं तत्कर्मविपाकात्पूर्वं त्वं दुःखिनी जाता, माणिभद्रश्रेष्ठिगृहे च त्वया पश्चाद्धर्मः कृतः, तस्य प्रभावाच्च त्वं सुखिनी जाता, तीर्थकरस्य पूजावनं यत्त्वया नवीनं विहितं तत्प्रभावात्सुरदत्तो वनखण्डस्तव पृष्ठे लग्नो भ्रमति, यच्च छत्रत्रयं त्वया जिनस्योपरि धारितं तत्प्रभावात्त्वमपि छायायां तिष्ठसि जिनपूजायाः प्रभावाच्च त्वच्छरीरात्सर्वेऽपि रोगा गताः, क्रमेण त्वं मोक्षसुखमपि प्राप्स्यसि.
इति श्रुत्वा सा राज्ञी क्षणेन मूर्च्छां प्राप्य धरित्र्यां पतिता, चन्द्रनसेकैः सिक्ता शीतलपवनैश्च व्यंजिता सती प्राप्तचैतन्यांजलि विधाय सूरि विज्ञपयति, 'हे मुने ! भवद्भिर्यो मे पूर्वभव उक्तस्तं सर्वमहमधुना प्राप्तजातिस्मरणा स्मरामि अथाहं संसारादुद्विग्रास्मि, अतोऽहमात्मानं नृपपार्श्वान्मोचयित्वा भवत्पार्श्वे दीक्षां गृहिष्यामि' तत् श्रुत्वा राज्ञोक्तं 'हे भद्रे एवंविधां संसारासारतां विधाय गृहवासे कस्तिष्ठेन ? यदि त्वं प्रव्रज्यां गृह्णासि तदाहमपि प्रव्रजित एव भविष्यामि इत्युक्त्वा राजा रिप्रति विज्ञपयामास, 'हे मुनींद्र ! अथ यावदहं गृहे गत्वारामशोभायास्तनयं मलयसुन्दरं च राज्ये संस्थाप्य पुनरायामि
*****
***
आराम
शोभा
कथा
॥२७॥