________________
श्रीं वर्द्धमान जिन देशना ॥२८॥
**********
तावन्मयि कृपां विधाय भवद्भिरत्रैव स्थातव्यं.' इत्युक्त्वा सूरिं नत्वा गृहे गत्वोत्सवेन मलयसुन्दरकुमारं निजपट्टे स्थापयित्वा दीनानाथानां च दानं दत्वा सप्तक्षेत्रेषु धनमुप्त्वोत्सवपूर्वकं गुरुसमीपे समागत्य राज्ञीयुतो राजा दिक्षां गृहीतवान् क्रमेण स राजर्षिः सिद्धान्तपठनतो गीतार्थीभूतो निजयोग्यतामाविष्कुर्वन् गुरुभिरात्मीयपदे स्थापित आचार्यपदं प्राप्तवान्, आरामशोभापि गीतार्थी भूता प्रवर्त्तिनी पदमलंचकार. क्रमेण स राजर्षिरारामशोभावि च भव्यजीवान् प्रतिबोध्यान्तेऽनशनं विधाय कालं कृत्वा सुरालये देवौ जातो. ततश्च्युत्वा नरसुखानि भुंक्त्वा सिद्धिमुखान्यपि तौ प्राप्स्यतः,
अतो भो भव्या आरामशोभैव सम्यक्त्वं पालनीयं सम्यक्त्वे यत्नकरणतः स्तोककालेनापि मुक्तिसुखप्राप्तिः स्यात्. इत्यारामशोभायाः कथा समाप्ता ॥
आरामशोभा कथा सम्पूर्णा.
'एवं जिनमुखादारामशोभायाः कथां श्रुत्वानंदो गाथापतिर्विज्ञपयति हे भगवन् ! पंचमहाव्रतानां भारमुद्रोदुमहमसमर्थोऽस्मि तेन हे प्रभो पञ्चाणुत्रतानि सप्त च शिक्षाव्रतानि सम्यक्त्व सहितानि मम दीयतां, एवं भवन्मुखात्सम्यक्त्वयुतानि द्वादशवतानि प्रतिपद्या स्वकीयं जन्म सकलीकरिष्ये, किंच हे स्वामिन्नद्यप्रभृति त्वमेव मम देवो वीतरागः, पंचमहाव्रतयुतो ब्रह्मचारी मे गुरुः, जिनप्रणीतश्च मे धर्मो भवतु, एवमानंदश्रावकेण सम्यवत्वयुतानि यथा द्वादशत्रतानि गृहीतानि, तत्संबंधी सिद्धांते त्वालापकोsयं
"अहन्नं भंते तुम्हाणं समीवे मिच्छतं पडिक्कमामि सम्मन्तं उवसंपजामि, नो मे कप्पइ अज्जप्पभिइ अन्नउथिए वा अन्नउत्थि अदेवयाणि वा, अन्नउत्थि अपडिग्गहिआणि वा, अरिहंतचे आणि
********************************
आरामशोभा कथा
||२८||