________________
श्री वर्द्धमान जिन देशना ॥२६॥
तत्
पूजां करोमि . स चारामोऽद्य सहसाऽशुष्यत्, तस्य नवपल्लवकरणार्थं मया विविधोपायाः कृताः, परं स नवपल्लवो न जातः, अथ न जानामि राजा मम किं करिष्यतीति मे मानसं चिन्तातुरं वर्त्तते.' तत् श्रुत्वा तयोक्तं ' हे तात! स्वं खेदं मा कुरु अथ मम शीलप्रभावाद्यावदसौ वनखंडो नवीनो न भविष्यति तावन्मया चतुर्विधोऽप्याहारोद्यतस्त्यक्तोऽस्ति श्रुत्वा श्रेष्ठिनोक्तं 'हे वत्से त्वमेवंविधामुग्रां प्रतिज्ञां मा कुरु ?' सावदत् 'हे तात! मया या प्रतिज्ञा कृता सान्यथा नैव भवेत्.' इत्युक्त्वा सा जिनमन्दिरे गत्वार्हन्तं नमस्कृत्यैकाग्रमानसा कायोत्सर्गे स्थिता, तृतीयदिने रजन्यां शासनदेवी प्रकटीभूय तां प्रत्युवाच, 'हे वत्से ! मिध्यादृष्टिदेवेनैषा वाटिका विनाशितास्ति, अथ स देवस्तव शीलप्रभावात्पलायितोऽस्ति, अतः प्रभाते वनखण्डोऽसौ तथैव नवपल्लवो भविष्यति. '
अथ प्रभाते पुष्पफलादिभिर्नवपल्लवं वनखण्डं दृष्ट्वा प्रमोदमेदुरचित्तः श्रेष्ठी गृहमागत्य तां प्रत्युवाच, 'हे ! प्रभावान्मम मनोरथा अद्य संपूर्णा जाताः, अतस्त्वं पारणं कुरु. '
! तत्र शील
अथ तत्र मिलितः श्रावकश्राविकासंघः परस्परं कथयामास, 'अहो ! कीदृगस्याः शीलमाहात्म्यमस्ति ? येन शुष्कमपि वनं पुनर्नवीनं जातं. नूनमियं सुकुताढ्या पुण्यात्मा शुभलक्षणा शीलसुरभीकृतात्मा ज्ञाततत्वा सुश्राविका वर्त्तते, अस्या नाम्नापि पातकं याति धन्योऽसौ माणिभद्रः श्रेष्ठी, यस्य गृहे चिन्तामणिसदृशैषा वसति' इति तस्याः स्तुतिं कुर्वन सर्वो संघस्तस्य श्रेष्टनो गृहे समागतः तया कुलधरपुत्र्यापि साधूनां प्रतिलाभ्य संयं च भोजयित्वा पश्चात्पारणं कृतं, जिनधर्मस्य च महान् महिमा बभूव
अथैकदा सा yearget पश्चाद्रजन्यां आम रिता सती चिन्तयति, 'अस्मिन् लोके त एव कन्या ये विषयखं भुंक्त पञ्चाच्चारित्रं गृह्णन्ति, अहं पुनरधन्या या ऐहिकामभोग वञ्चिताद्यावधि दुःखभाजनमेव जाता, यद्यपि प्राप्तजैनधर्माप्यहं दीक्षां
********
******
आरामशोभा
कथा
॥२६॥