________________
श्रीवर्द्धमान जिनदेशना ॥२७३॥
聯強號號號號號號號號涨器漆器器器端端端樂器帶跳號號號聯強
पिता. एवं ताभिरष्टाभिर्निजभार्याभियुतः सागरचंद्रकुमारो विद्याधरेंद्रमापृच्छय दिव्य विमानस्थितो गगनमार्गेण निजनगरे प्राप्तः.
तेतलिपुत्र एवं महासमृद्धियुतं निजपुत्रं समागतं वीक्ष्य हृष्टेनामितचंद्रनृपेण महोत्सवपूर्वकं तस्य नगरप्रवेशः कारितः, ततः | चरित्रम् ॥ कुमारो मातापित्रोः पादयोनमस्कृत्य स्वावासे प्राप्तः, तत्र च स निजाष्टभार्याभिः सह विविधानि सौख्यानि भुंक्ते. ____ अथान्यदा तत्पुरोद्याने भुवनानंदाभिधः केवली समागत्य समवसृतः, तद्वंदनाथ राजा ससुतस्तत्र समागतः, केवलिनं * त्रिप्रदक्षिणीकृत्य वंदित्वा चाग्रे समुपविष्टो राजा केवलिमोक्तं धर्मोपदेशं शुश्राव. देशनांते राजा पृच्छति हे भगवन् ! मेऽयं सामरचंद्रकुमारः केन हृतः ? केवल्यभाषत हे राजन्नस्य तव पुत्रस्य चरित्रं शृणु ? महाविदेहक्षेत्रे वणिकसुतौ द्वौ भ्रातरावभूतां, तो धनवंतौ गुणवंतौ विवेकवतौ चास्तां. तयोवृद्धभ्रातुर्भार्या निजभर्तयतीवस्नेहवती धर्मकर्मरताभूत. अन्यदा स वृद्धभ्राता व्यापारार्थ देशांतरे ययौ. किदिनांतरं लघुभ्रात्रा हास्येन निजयभ्रातृजायायै कथितं, यन्मे भ्राता पथि गच्छन् | दुष्टतस्करैर्मारितः. तत् श्रुत्वा सातीष शोकातुरा स्नेहवशेन तत्कालं मृत्युमवाप. तद् दृष्ट्वा स लघुभ्रातापि पश्चात्तापं कुर्वन्नतीवदुःखितो जातः.
इतः कियता कालेन तस्य वृद्धभ्रातापि तत्र समाययौ, निजभार्यामरणवृत्तांतं च विज्ञाय लघुभ्रातुरुपरि स क्रोधातुरो जातः, लघुभ्रात्रा क्षामितोऽपि स क्रोधं न तत्याज. ततः स वृद्धभ्राता तापसो भूत्वा घोरमज्ञानतपः कृत्वा क्रोधकलुषितात्माऽसुरकुमारेषु देवो जातः. लघुभ्राता तु जिनोक्तं धर्म श्रुत्वा जातवैराग्यो दीक्षां जग्राह. शुद्धभावेन प्रव्रज्या पालयन् सोऽसुरकुमारेण तेन क्रोधेन शिलायामास्फाल्य मारितः, स मुनिरपि शुभभावेन मृत्वा प्राणतकल्प देवो जातः. सोऽसुर
॥२७३॥