________________
तेतलिपुत्र चरित्रम् ॥
श्रीवद्धमान
पूजयित्वा तत्र सागरचंद्रं दृष्ट्वोपलक्ष्य च सोऽतीव हृष्टः. जिन देशना * अथ तेन सार्द्ध तत्र जिननमनाथै तस्य सुंदर्यभिधा कन्यकापि समागतासीत्, सापि सागरचंद्रं दृष्ट्वातीवहृष्टा बभूव. ॥२७॥ यतः पूर्व निमित्तज्ञेन तस्यै कथितमासीत् यत्तव भर्त्ता सागरचंद्रकुमारो भविष्यतीति.
इतः सिंहनादविद्याधरेश्वरोऽपि पुत्रीभिः सहितस्तत्र समागतः, जिनप्रतिमां नत्वा स्नेहेन स कुमारमालापितवान् , 'भो वत्स भव्यं जातं यन्मे पुण्येन त्वमत्र कुशलेन समागतः.' कुमारेण पृष्टं 'हे स्वामिन् ! परं स आवासो मया परिणीताश्च सर्वा अपि कन्याः क्य गताः?' सोऽवादीत् वत्स शणु ? 'समुद्रतटेऽमिततेजाभिधो राजास्ति, तस्य कनकमालाभिधा च राज्यस्ति. तयोः कमलोत्पलाभिधौ च पुत्रौ स्तः. तयोः कमलस्तव भुवनकांताभिधां दयितां रथादपहृत्य द्रुतं वैताढयपर्वते गतोऽस्ति, संप्रति सा कन्या तत्र निजदृढशीलयुता स्थितास्ति.'
अथ तेनोत्पलेनापि ताः पंच कन्यका हृत्वा, तमावासं चादृश्यीकृत्य त्वं पृथिव्यां मुक्तः. ततो विद्याबलेनाह तत्सर्व ज्ञात्वा दुष्टमुत्पलं मारयित्वैताः कन्याः समानीतवान्.' तत् श्रुत्वा क्रुद्धः कुमारस्तंप्रत्याह 'हे तात वं मां वैताढथे प्रापय ? यथा तं दुष्टं हत्वा मे प्रिया समानयामि.'
अथ सुधर्मराज्ञा निजपुत्री सुंदरी तेन कुमारेण सह तत्र परिणायिता, ततः सिंहनादविद्याधरेंद्रोऽपि कुमारं निजपुरे समानीय निजपुत्रीभिः सार्द्ध तस्य पाणिग्रहणं कारयामास. ततस्तेन कुमाराय बहुरूपकारिणीप्रमुखा विद्या दत्ताः. एवं स
विद्यावलयुतो निजप्रियाभुवनकांताग्रहणाय चलितः. तदामिततेजविद्याधरः स्वयं तत्सन्मुखमागत्य कुमाराय भुवनकांतां * समर्पयामास, निजमुतस्यापराधं च क्षामयामास- ततोऽमिततेजनृपेण तस्य प्रथमपत्नी कमलमालापि तत्रानीय तस्मै सम
第柴柴蒸蒸器器蒸器藥器器競號聯絕榮器茶器茶器
器強学勞聯強強強聯柴柴柴柴柴柴柴柴柴蒸號聯张继器藥器蹤器器第
||२७२॥