________________
श्रीवर्द्धमान जिनदेशना ॥२७॥
89888999%2020 2029
तेतलिपुत्र चरित्रम् ॥
मिमंडितमेकमावासं ददर्श, तत्र च गीतध्वनि श्रुत्वा स समारुरोह, तदा सप्तमभूमौ महासुंदराकाराः पंचकन्याः स ददर्श. ता दृष्ट्वा विस्मितः कुमारो यावत् स्थितस्तावत्ताभिरुक्तं स्वागतं ते, इत्युक्त्वा ताभिरुत्थाय तस्मै आसनं दत्तं. ततः कुमारेण ताग्यः पृष्टं भो सुंदर्यो यूयमत्रैकाकिन्यः कथं स्थिताः स्थ ? ताभिरुक्तं 'भो सुंदर ! त्वमस्माकं स्वरूपं शणु ! | वैताढयपर्वते सर्वेषां खेचराणामधीशः सिंहनादाभिधो विद्याधरो वसति. तस्य वयं कमलाश्रीरंभाविमलाताराभिधाश्च पंच * पुत्र्यः स्मः. अन्यदास्माकं जनकेनैको नैमित्तिकः पृष्टो यदेतासां मे पुत्रीणां को भर्ता भविष्यतीति. निमित्तज्ञनेनोक्तंभो राजन् ! अमितचंद्रसुतः सागरचंद्राभिधः कुमारस्ते कन्यानां भर्ता भविष्यति. स च घोरांधकारयुतवने ताभ्यो मिलिष्यति. ततो राजा तं निमित्तझं सत्कृत्य विसर्जयामास.
अथ तेन सिंहनादराज्ञात्र घोरांधकारवनेऽयं सप्तभूमिरावासः कारितः, वयं च तेनात्र स्थापिताः, अस्माकं पुण्येन वया चाद्यात्रागत्य निमित्तज्ञवचनं सत्यापितं. अतस्त्वं कृपां विधायास्मत्पाणिग्रहणं कुरु ? तत् श्रुत्वातीवविस्मितः कुमारो गाथार्थ स्मरन् तासां पाणिग्रहणमकरोत्. इतोऽसौ तद्भुवनं कन्याश्चापि तत्र न पश्यति. तदा तेन चिंतितं किं काऽप्ययं मे मोहश्चित्तभ्रमो वा कोऽपि देवानुभावः समुत्पन्नः ? पुनरपि स गाथार्थ स्मरन् यत्र रथो मुक्तोऽभूत् तत्र समागत्य यावद्विलोकयति तावद्रथं कन्ये चापि न व्यलोकयत्. ततो भृशं विषादं प्राप्तो गाथार्थ स्मरन् यावदग्रे वनमध्ये स चचाल, तावदुत्तंगतोरगमंडितमेकं जिनमंदिरं स ददर्श. तत्र गत्वा रत्नमयीं जिनप्रतिमा कमलपुष्पैः पूजयित्वा स्तुत्वा च गाथार्थ स्मरन् यावत् स तिष्ठति, तावन्मंगलापुरीतः सुधाख्यो राजा तत्र समागतः, स च कुमारजनकस्य सुहृदस्ति. जिनराज
染樂部樂器晚柴柴张柴柴蒂蒂勞蒸蒸蒸桑聚聽器器聯染染驗聽聽游类
2282%20289899%89009899%
॥२७
8