________________
तेतलिपुत्र चरित्रम्॥
श्रीवर्धमान | पलायिताः. एवं तत्सर्वमपि सैन्यं ततो नष्टं. निज सैन्यं पलायमानं दृष्ट्वा क्रुद्धः समरविजयकुमारः स्वयं युद्धायोत्थितः, जिनदेशना || मत्तगजेंद्रवद्युद्धं कुर्वतोस्तयोर्वरणार्थ जयश्रीरपि संशयं प्राप्ता. ॥२७॥
इतः सागरचंद्रेण छलं लब्ध्वा स कुमारो बद्धः, ततोऽसौ भयभीतः सागरचंद्रचरणयोः पतित्वा क्षमामयाचत. कुमारेणापि दयया स सत्कृत्य बंधनमुक्तः कृतः. इतः काचिदंगना तत्रागत्य जगाद भो कुमार ! कुशलबर्द्धननगरे श्रीकमलचंद्राभिधो नृपो वसति, अमरकांताभिधा च तस्य राज्यस्ति, तयोर्जिनमतभाविता भुवनकांताभिधा च पुत्र्यस्ति. कस्यचिन्मुखात्तया तव गुणान् श्रुत्वेति प्रतिज्ञा कृतास्ति, यदस्मिन् भवे मम सागरचंद्र एव भर्ता भवतु ? अन्ये सर्वेऽपि पुरुषा मे सहोदरा:. एवं दृढप्रतिज्ञां गृहीत्वा सा तिष्ठति.
अथ सोलापुरे नगरे सुदर्शनाभिधो राजा राज्यं करोति, तस्य समरविजयाख्यः सुतोऽस्ति, तस्याथै सुदर्शनराज्ञा सा कन्या मार्थिता, परं कमलचंद्रनृपेण न दत्ता. तेन स समरविजयकुमारः सेनया सह समागत्य तां कन्यां च हृत्वा प्रच्छन्नमत्र वने स्थितः. तदाहं तस्याः कन्याया धात्री मोहात्तत्पृष्टे लग्नात्र समागता, इतो मया पुण्ययोगेन त्वमत्र दृष्ट उपलक्षितच. | अतस्त्वं कृपां कृत्वा तां कन्यामस्य पार्थाद् गृहीत्वा परिणय ? तत् श्रुत्वा समरविजयकुमारेणापि सा कन्या तस्मै समर्पिता, सागरचंद्रकुमारेणापि सा भुवनकांता कन्या परिणीता.
अथ कुमारः श्वशुरस्य मिलनार्थ कुशलवर्द्धननगरं प्रति चचाल. मार्गे गच्छंश्च वीणादियुतं गीतगानं सोशणोत्. तत् | श्रुत्वा विस्मितोऽसौ तत्कन्यायुग्मं रथयुतं तत्र मुक्त्वा तद्गानशब्ददिशि चलितः. अतिदूरे गत्वैकस्मिन् गहनवने स सप्तभू
強強聯整器器鉴瓷器器蹤器涨涨涨涨涨涨涨器器端桑蒂染器鉴器瓷器
॥२७॥