________________
*
**
तेतलिपुत्र चरित्रम् ॥
श्रीवर्द्धमान| कुमारोऽपि संसारे भ्रांत्वा पुनरप्यसुरकुमारो जातः, लघुभ्राता तु प्राणतकल्पाच्च्युत्वा तवायं सागरचंद्राभिधः सुतोऽभूत्. जिन देशना एवं पूर्वमववैरात्तेनासुरकुमारेण तवायं पुत्रः समुद्रे क्षिप्तः, पूर्वकृतपुण्यवशाच्च फलकं लब्ध्वा स निर्गतः, ईदृगसमृद्धिसहि- ॥२७४||* तश्च स तव गृहे समागतः.
अथ पुनरपि सोऽमुरकुमार एतस्योपसर्ग करिष्यति, ततोऽस्य कुमारस्य पार्थात्स प्रतिबोधमपि प्राप्स्यति. इति निज* पूर्वभवं श्रुत्वा जातजातिस्मरणेन तेन सागरचंद्रकुमारेण वैराग्यं प्राप्य निजसुतं च राज्ये न्यस्य जनकजननीन्यां सह तस्य केवलिनः पाच दीक्षा गृहीता.
अथ तेन चिंतितमहो एकापि पठिता गाथा मे सुखकारिणी जाता, अतोऽहं सर्वादरपूर्वकं सर्वश्रुताभ्यास करोमीति विचिंत्य स सर्वपूर्वाभ्यासं चकार. ततो गुरुणाचार्यपदे स्थापितोऽसौ भव्यजीवान् प्रतिबोध्यांतेऽनशनमग्रहीत. तदा पूर्वभववरेण सोऽसुरकुमारः पक्षिरूपं विधाय तस्य शरीरं त्रोटयामास, ततस्तेन सिंहगजादिरूपाण्यपि विकुळ स मुनिः कदर्थितः, परं स महात्मा मनागपि न क्षुब्धः ततः सोऽसुरकुमारः शांतक्रोधो मुनिवेषं दृष्ट्वा प्रतिबुद्धो निजापराध क्षामयित्वा तत्र महोत्सवमकरोत्. सागरचंद्रमुनिस्तुः कर्मक्षयं कृत्वा केवलज्ञानमुत्पाद्य शाश्वतस्थानके मोक्षे ययौ श्री अमितचंद्रप्रमुखः सर्वोऽपि साधुसाध्वीलोकः मुरलोके गतः एवं यथा सागरचंद्रेण ज्ञानेन वारिधिमपि तीर्ला ऋद्धयः प्राप्तास्तथा यूयमपि सर्वश्रीनिदानं ज्ञानं ज्ञात्वा तत्रादरं कुरुत ? ॥ इति सागरचंद्रकथा । ___ इत्याधुपदेशं श्रुत्वा तेतलिपुत्रश्राद्ध आनंदवत् श्राद्धधमै प्रतिपद्य नवतत्त्वज्ञानं च समासाद्य प्रभुं नमस्कृत्य गृहे समागस्य सकुटुंबो विशुद्धभावेन जिनधर्म करोति. ततः पंचदशे वर्षे धर्म कुर्वतस्तस्य मनसीति विचारः समुत्पन्नः, इयत्कालं
器蓄能器強號號號號器貓器聽器聽器聽器器器強器
張強张张张张器密語张黎张器諾器端部张张张张张张张梁亲密整张
॥२७४॥