________________
श्रीवर्द्धमान जिन देशना ॥२६६॥
तेतलिपुत्र चरित्रम् ।।
德御够带继继端游能器端端帶幾張聯號號路器端聯聯發發發發發爱露
तेतलिपुत्रचरित्रम् अथ श्रीसुधर्मस्वामी जंबूस्वाम्यग्रे तेतलिपुत्रस्य चरित्रं कथयति-अस्मिन् भरतक्षेत्रे श्रावस्त्यभिधा नगरी वर्तते, तत्र नानावृक्षः शोभित कोष्ठकाभिधानं च चैत्यमस्ति. तत्र जितशत्रुनामा राजा राज्यं करोति, किंच तत्रैकस्तेतलिपुत्राभिधः सुप्रसिद्धो गायापतिसति, तस्य फल्गुनाम्नी च भार्या वर्तते. व्यवसाये व्याजे धरियां च तस्य चतुश्चतु:कोटिसुवर्णमस्ति, चत्वारि च गोकुलानि तस्य गृहे वर्तते. अथैकदा श्रीवर्द्धमानस्वामी विहरंस्तत्र नगरे समाययौ. देवश्व तत्र समवसरणं कृतं. जितशत्रुनृपप्रमुखा नगरलोकाश्च समवसरणे समागताः. तेतलिपुत्रोऽपि जिनं समागतं श्रुत्वा हृष्टमनास्तत्र समा. गत्य प्रभुं च वंदित्वा पुरो निषण्णः. तदा श्रीवर्द्धमानप्रभुरपि सर्वप्राणिसाधारणया भाषया धर्मोपदेशं ददौ. 'भो भो भव्या दुर्लभ मनुष्यभवं ज्ञात्वा दुर्गतिदायकं प्रमादं मा कुरुत ? इहलौकिकसुख सुलभ, स्वर्गादिसंपच्च सुलभा, परमेकांतसुखदायको जिनमणीतो धर्मो दुर्लभोऽस्ति, धर्मोंगोत्तमकुले समुत्पत्तिदिव्यरूपसंपत्तिः कीर्तिविस्तारश्च भवंति, ततः प्रमा| द त्यक्त्वा प्रयत्नेन धर्मः कार्यः. धर्मस्य च मुख्यकारणं ज्ञानं विज्ञाय तत्रादरः कार्य:. ज्ञानेन पुण्यपापे खाद्याखाये पेयापेये इहलोकपरलोकौ स्वर्गमोक्षौ च ज्ञायंते. ज्ञानं हि दुर्गतिदुःखं हरति, शिवसुखं च कुरुते, एवं ज्ञानं सर्वगुणानां स्थानमस्ति, ज्ञानेन च सागरचंद्रस्येव प्राणिनः सर्वसंपदो भवंति.' तदा तेतलिपुत्रेण पृष्टं 'हे भगवन् ! कोऽसौ सागरचंद्रः ? कथं च तस्य ज्ञानेन संपदो जाताः?
भगवानाह मो तेतलिपुत्र ! त्वं सावधानमनास्तस्याश्चर्यकारक चरित्रं शृणु अस्मिन् भरतक्षेत्रे मलयपुरेऽमितचंद्रा
影帝語密器张亲密亲密亲密亲密亲密亲密亲密亲密塞乖张
॥२६६॥