________________
श्रीवर्द्धमान जिन देशना ॥२६७||
तेतलिपुत्र चरित्रम् ॥
染整合整整露露號號張繼器鑑聽器幾號幾號號蹤器继器器端發發時
भिधो राजा राज्यं करोति, तस्य चंद्रकलाभिधा च राज्यस्ति, तयोश्च सागरचंद्राभिधः पुत्रो वर्तते, तस्मिन कुमारे ये गुणा यच्च सौभाग्यं यच्च भुजाबलमासीत्तदन्यत्र कुत्रापि नाभवत् , लीलया स महागजेंद्रमप्युल्लालयति, बलवंतं राक्षसमपि हेलया वशीकरोति. __अथैकदा स कुमारो नगरमध्ये लीलया भ्रमन्नेकं पुरुष वंशाग्रोर्वीकृतलेखं ददर्श. तदा कुमारस्तत्पावें गत्वा तमपृच्छत् 'भो पुरुष ! अस्मिन् लेखे किमस्ति ?' सोऽवदद्भो कुमार अत्र लेखे चैकाऽपूर्वा गाथास्ति, तस्याश्च पंचशतदीनाराणि मूल्यमस्ति. तत् श्रुत्वा कुमारस्तस्मै तन्मुल्यं दत्वा गाथालेखं च गृहीत्वा हृष्टो वाचयामास. अप्पच्छियं चिय होयइ । दुहं तह सुहंपि जीवाणं । तं चिय उवसमिउं धम्मे चिय कुणह पडिबंधं ॥१॥
तताऽसौ तद्गाथाथै मनसि स्मरन्नुद्याने गत्वा विविधक्रीडाभिः क्रीडयामास. __इतोऽसौ कुमारः केनापि हृत्वा महासमुद्रे क्षिप्तः, तदा च पूर्वकृतपुण्योदयेन तेनैकं फलकं लब्धं, नवमे दिने च सोऽमरद्वीपे प्राप्तः, तत्र स नालिकेरजलेन शरीरं मर्दयित्वा पटुशरीरो जातः, गाथार्थं च स्मरन् दुःखनामापि न ज्ञातवान्, फलपुष्पाणि च भक्षयन् स प्राणाधारं करोति. अथ तत्र द्वीपे भ्रमन् कुमारः कस्याश्चिदंत्याः कन्याया ध्वनि शुश्राव. तत् श्रुत्वा करुणया कुमारस्तद्धनिदिशं पति चचाल. अग्रे गच्छता च तेन श्रुतं ' यदन्यस्मिन् भवेऽपि स सागरचंद्रकुमार एव मे भर्ती भवतु,' इत्युत्वा सा बाला यावद्गले पाशं बध्ध्वाऽऽत्मानं मोचयति तावत्कुमारणागत्य द्रुतं तत्पाशश्छेदितः.
१ अप्रार्थितुं किल भवति दुःखं तथा सुखमपि जीवानां तत् किल उपमितुं धर्मे किल कुरुत प्रतिबन्धं.
一條絲帶勞聯遊聯際聯柴柴柴柴藩柴晓器藥器鑑器端端游蒂蒂蒂器装
॥२६७॥