SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ NEENE भी वद्धमान जिन देशना ॥२६५॥ नंदिनीमिय चरित्रम् ॥ 张张张张张张张张张张器器誘器器骤器器 अथ शुभमुहूर्ते कुमाराय राज्यं दत्वा हरिवाहननृपः प्रव्रज्यां गृहीत्वा पूर्वार्जितकर्माणि क्षपयित्वा मुक्ति ययौ. भीमकुमारोऽपि चिरं राज्यं प्रपाल्य सुतं च राज्ये न्यस्य दीक्षां गृहीत्वा कर्मक्षयं विधाय मोक्षे ययौ.।। इति भीमकुमारकथा समाता ॥ एवं जिनमुखात् श्रुत्वा स नंदिनीपियोऽपि गृहस्थव्रतान्यानंदवत्मत्यपद्यत. ततोऽसौ निजजीवितं सफलं गणयन् प्रभुं * वंदित्वा स्वगृहे समागतः. प्रभुरप्यन्यत्र विजहार. एवं सभार्यस्य तस्य श्रीजिनोक्तं धर्म कुर्वतश्चतुर्दशाण्यतिक्रांतानि. पंचदशे च वर्षे तेन चिंतितमियत्कालं मया कुटुंबचिंता कृता, अधुनाहं श्रादप्रतिमातपः कुर्वे, इति ध्यात्वा स सर्व स्वजनवगै संतोष्य, ज्येष्ठपुत्रं च कुटुंबभारे संस्थाप्य स्वयं पौषधशालायां प्रमाज्य दर्भसंस्तारकस्थितः श्राद्धप्रतिमा आराधयामास. ततोऽसौ निरुपसर्गोऽनशनं गृहीत्वा श्रीवीरं स्मरन् शांतकषायः कालं कृत्वा सौधर्मदेवलोकेऽरुणाभविमाने चतुः पल्योपमायुर्देवो जातः. अथ श्रीगौतमेन पृष्टं 'हे भगवन् ततश्च्युत्वा स क्व यास्यति ?' भगवानुवाच 'भो गौतम ! स महाविदेहे सेत्स्यति.' एवं श्रीसुधर्मस्वामिना जंबूस्वाम्यग्रे नंदिनीप्रियश्राद्धस्य चरित्रं. कथितं ॥ इति श्रीवर्द्धमानदेशनायां वाचनाचार्यश्रीरत्नलाभगणिशिष्येण राजकीर्तिगणिना गद्यबंधेन प्रणीतायां नंदिनीप्रियप्रतियोधो नाम नवम उल्लासः समाप्तः॥ श्रीरस्तु॥ 強強器路端端幾端端端端帶柴柴柴柴端端端帶禁藥器端藤藤藤第 Ala ॥२६५॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy