________________
श्रीवर्द्धमान जिन देशना ॥२६२।।।
नंदिनीप्रिय चरित्रम् ॥
च महादुःखदायिन्यस्ति. यतः
सुखार्थे दुःखसंघातं । मंगलार्थेऽप्यमंगलं । जीवितार्थे ध्रुवं मृत्यु । कृता हिंसा प्रयच्छति ॥१॥ म्रियस्वेत्युच्यमानोऽपि । देही भवति दुःखितः। मार्यमाणः प्रहरणे-दारुणन कथं भवेत् ॥ २॥
तत् श्रुत्वा सा प्राह भो कुमार! अयप्रभृत्यहं जीववधं नैव करिष्यामि, इति स्वीकृत्य सा देव्यदृश्यी बभूव. अथ कापालिकेन यः पुरुषस्तत्र मारणार्थमानीतोऽभूत् , ते निजमित्रं मंत्रिपुत्रं विज्ञाय हृष्टः कुमारस्तमालिंग्यापृच्छन्, भो मित्र ! त्वं जानन्नप्यस्य दुष्टस्य वशे कथं पतितः ? तत् श्रुत्वा सोऽवादीन भो मित्र यदा त्वं गृहमध्ये केनापि न दृष्टस्तदा | नृपादिः सर्वोऽपि लोकः शोकातुरो जातः, ततः समाराधितया कुलदेव्या प्रकटीभूयोक्तं हे राजन् ! त्वं चिंता मा कुरु ? स्तोकैरेव दिनैर्भवत्पुत्रो महर्दियुतोऽत्र समेष्यति. । अथाहं लोककथाश्रवणार्थ यदा गृहादबहिनिर्गतस्तदानेन दुरात्मनाहं गृहीत्वाऽत्रानीतः ततो योगिनापि कुमारवचनेन जीवदयाधर्मोऽङ्गीकृतः
इतः कोऽपि महागजेंद्रस्तत्रागत्य भीमकुमारं मंत्रिपुत्रं च शुंडया समुत्पाट्य निजपृष्टे च संस्थाप्य गगनमार्गे गतः, तथैकस्य शून्यनगरस्य प्रतोलीपार्श्वे तौ मुक्त्वा स्वयमदृश्यीभृतः
अथ भीमकुभारो मंत्रिपुत्रं बहिः संस्थाप्य स्वयं नगरमध्ये प्रविष्टः, तत्र च नरसिंहरूपेणैकं सुंदराकारं नरं मुखे गृहीतं रुदंतं स ददर्श, तं दृष्ट्वा कुमारः करुणया तं नरसिंहं प्रत्याह 'भो नरसिंह त्वमेनं दीनं मनुष्यं मुंच ?' तत् श्रुत्वा
蔡锦艺够带蒸蒂蒂蒂涨涨涨蒂蒂蒂蒂蒂蒂蒂柴晓晓聯蒸遊张晓報號語
॥२६२॥