________________
श्रीवर्द्धमान जिनदेशनो ॥२६१॥
अत्र शैले केचिन्मुनयश्चतुर्मासीं स्थिताः संति, तेषामयं स्वाध्यायध्वनिः श्रूयते तदा कुमारस्तत्र गत्वा मुनीन् वंदित्वा पृच्छति 'भो मुनयो यूयमत्र महाटव्यां कथं स्थिताः स्थ ? इति यावत्स पृच्छति तावदेको भुजस्तत्रागत्य कुमारस्य खड्ग गृहीत्वा गगने मंतुं प्रवृत्तः, तदा स कुमारोऽपि सत्त्वमालंव्य तत्र भुजे समारुरोह. भुजोऽपि कुमारं गृहीत्वा कालिका देव्याश्चैत्ये समागतः तदा कुमारो भुजाद् उत्तीर्य चैत्यमध्ये गतः, तत्र च स तमेव योगिनं ददर्श स जोडोप योगिनः शरीरे प्रविष्टः कुमारोऽपि तत्र प्रच्छन्नं स्थितः
अथ तेन योगिना पूर्वं कोऽपि सुंदराकारः पुरुषो धृतोऽस्ति, तं पुरुषं स केशेषु धृत्वा वदति, रे पुरुष ! सांप्रतं त्वं निजेष्टदेवं स्मृत्वा कंचिदपि शरणीकुरु ? अधुनैवाननासिना तव शिरच्छेदं करिष्यामि .
तत् श्रुत्वा स पुरुषः प्राह श्रीवीतरागदेवो मे शरणमस्तु तथैव भीमकुमारोऽपि मे शरणं भवतु ? तत् श्रुत्वा योगी वदति रे मूर्ख तस्य कापुरुषस्य भीमकुमारस्य त्वं किं शरणं करोषि ? स तु मार्यमाणो ममाग्रतः क्वापि नष्ट्वा गतोऽ
तत् श्रुत्वा भीमकुमारः प्रकटीभूय योगिनं प्रत्युवाच 'रे कापालिकाधम ! त्वमेनं कथं मारयसि ? ' इति तद्वचनं श्रुत्वा स कापालिकस्तं पुरुषं विमुच्य भीमस्य मारणार्थे धावितः तयोर्घोरे युद्धे जाते कुमारो योगिनं ग्रीवायां गृहीत्वा धरित्र्यां च प्रपात्य तस्योपर्युपविष्टोऽवादीत् रे चांडालाधम ! अधुना त्वमेव तवेष्टं देवं स्मर ? इत्युक्ते सा कालिकादेवी कुमारसत्त्वेन तुष्टा सती माह, भो कुमार ! मम भक्तमेनं योगिनं त्वं मा मारय ? वरं च वृणु १ भीमेनोक्तं हे देवि ! यदि त्वं ममोपरितुष्टासि तर्हि त्वमपि जीवदयां पालय ? यतः सर्वेषामपि जीवानां निजजीवो वल्लभोऽस्ति जीवहिंसा
नंदिनीप्रिय चरित्रम् ॥
॥२६१॥