________________
श्रीवर्द्धमान जिन देशना ॥२६० ॥
निजं विकरूपं विधाय छुरिकां च हस्ते कृत्वोवाच भो कुमार अथ त्वमात्मीयमिष्टदेवं स्मर १ अधुना बलात्कारेतमस्तकं गृहीत्वाहमिमां विद्यां साधयिष्यामि तत् त्वा स हसित्वाह रे मूढकापालिक ! गोमायुतुल्यस्त्वं मे सिहस्य मस्तकं कथं गृहिष्यसि १ ततस्तयोः परस्परं युद्धं प्रवर्तितं कुमारस्तं कापालिकं मुष्टिभिस्ताडयित्वा भूमौ निपात्य तद्वक्षसि समारुह्य केवलं दययैव तन्मस्तकछेदमकुर्वन् भृशं ताडयामास ततोऽसौ भृशमारटन् क्रोधात्कुमारं गृहीत्वाकाशे उल्लालयामास तदैकया देवतया तद्रूपमोहितयाकाशस्थितया स गृहीतः.
*****
नंदिनी प्रिय चरित्रम् ॥
ततः सा तं निजस्थाने समानीयोवाच ' भो सत्पुरुष ! अयं विंध्याचलाख्यः पर्वतो वर्त्तते, अत्र नानामणि* मंडितमिदं मे गृहमस्ति, कमलाभिधाहं च यक्षिण्यस्मि तव रूपेण च मोहितास्मि, ततो भो महाभाग ! ममोपरि कृपां विधाय त्वं मया सह भोगान् भुंक्ष्व ? ' तत् श्रुत्वा स भीमकुमारश्चिंतयति प्राणांतेऽप्यहं व्रतभंगं नैव करिष्यामि, एषा देवी ममोपरि रोषं करोतु वा संतुष्टा भवतु इति ध्वात्वा सोऽवदत् व्रतभंगेन प्राणिनः संसारमध्ये भ्रमंति, कामभोगाश्चानर्थानां खानितुल्याः, मुक्तिमुखस्य च शत्रुरूपा वर्त्तते यतः
न जातु कामः कामानामुपभोगेन शाम्यति ॥ हविषा कृष्णवत्मैव । भूय एव विवर्द्धते ॥ १ ॥
सलं कामा विसं कामा । कामा आसिविसोवमा । कामेय पत्थमाणा य । अकामा जंति दुग्गई ॥ ॥ २ ॥ इति कुमारवचनानि श्रुत्वा हृष्टा देव्युवाच भो कुमार त्वं धन्यः कृतपुण्यश्चासि येन यौवनावस्थायामपि स्वात्मावशीकृतोऽस्ति इतः कुमारो मधुरध्वनिं कस्यापि श्रुत्वा देवीमपृच्छत् भो देवि कस्यायं मधुरध्वनिः श्रूयते ? देव्युवाच ॥२६०॥ १ शल्यं कामा विषं कामा कामा अशीविषोपमा । कामान् प्रार्धमाना अकामा यान्ति दुर्गतिं ॥