________________
Essag
श्रीवर्तमान जिन देशना ॥२५९॥
नंदिनीप्रिय चरित्रम् ॥
RESSMEN
स्वाम्याह-" इहैव भरतक्षेत्रे कमलपुराभिधं नगरं वर्तते, तत्र नरवाहनाख्यो राजा राज्यं करोति, तस्य मालत्य- भिधा च भार्यास्ति. तयोर्महासत्वोपेतो भीमनामा पुत्रोऽस्ति. अथान्यदा स भीमकुमारो वनमध्ये गतः, तत्र च वृक्षाध उपविष्टं साधुमेकं स ददर्श, साधु वंदित्वा च सोऽग्रे उपविष्टः, साधुनापि तस्मै धर्मोपदेशतो दत्तः. ततोऽसौ साधुसमीपे सम्यक्त्वमूलं श्राद्धधर्ममंगीचकार. पश्चादसौ गृहे समागत्य जिनभाषितधर्म करोति. ___अथैकदा कोऽपि कापालिको भीमकुमारसमीपे समागत्य पुष्पफलानि चाग्रे विमुच्य विज्ञपयति 'हे कुमार ! सत्पु. रुपाः कदापि प्रार्थनाभंगं न कुर्वति, तस्मात्त्वामहं प्रार्थयामि यद् द्वादशसंवत्सराणि यावत्पूर्व मया विद्यायाः सेवा कृतास्ति, सांप्रत चतुर्दशीदिने च तां विद्या साधयितुमहमिच्छामि, ततो महोपकारी त्वं मम विद्यासाधने उत्तरसाधको भव ? | तत् श्रुत्वा परोपकारमविणेन कुमाऽरेणापि तस्य तद्वचनं स्वीकृतं.
_अथ तस्मिन् दिने समागते स भीमकुमारोऽपि कापालिकसमीपे चचाल. तन्मित्रेण मंत्रिपुत्रेण गाढं निवारितोऽपि स | नातिष्टत्. ततोऽसौ भीमकुमारः खड्गहस्तो एकाक्येव स्मशाने योगिपार्श्व गतः.. ____ अथ स योगी मंडलमालिख्य देवतायाः पूजनं कृत्वा कुमारमस्तके शिखाबंधं कर्तुमुत्थितः. कुमारस्तु तदुष्टभावं ज्ञात्वाऽवादीत् 'भो कापालिक ! अस्माकं तु सत्वमेव शिखाबंधोऽस्ति, ततस्त्वं तव समीहितं कुरु ? अनया चिंतया तेऽलं, दृष्टव्यंतरयक्षादयो ममाग्रे समर्था न भवंति.' तत् श्रुत्वा स कापालिकश्चितयति एष कुमारो महाबलिष्टोऽस्ति, अतोऽहमस्य मस्तकं कथं गृह्णामि ? तद्विना च मत्कार्यसिद्धिन भविष्यति. ततो बलात्कारेणाप्यस्य मस्तकमहं गृह्णामीति विचिंत्य स
BENER*EEEEEEEEEEEEEEEE
**
॥२५९॥
**