________________
श्री वर्द्धमान जिन देशना ॥२६३॥
नरसिंहोऽवदत् भो कुमार बुभुक्षितेन मया बहुकालेनेदं भक्ष्यं लब्धमस्ति, ततस्तमहं कथं मुंचामि ?' कुमारेणोक्तं त्वं वैक्रियशरीरो दृश्यसे, ततोऽयं तव कथं भक्ष्यो भवेत् ?' तेनोक्तं 'हे कुमार तवोक्तं सत्यमस्ति, परमसौ मे पूर्वभववैरी वर्त्तते, तस्मादेनमहं निश्चयेन मारयिष्यामि, अस्य मारणेनैव मे क्रोधो यास्यति' भीमो भगति, 'हे नरसिंह जगति कोऽपि कस्यापि वैरी न भवति, प्राणिनां सुखदुःखानि निजकर्मभिरेव भवति, अतस्त्वमेनं दीनं मनुष्यं मुंच ? ' एवं कुमारेण बहुधा भणितोऽपि स तं न मुमोच तदा कुमारेण बलात्कारेण स मनुष्यस्तन्मुखाद् गृहीतः, ततस्तयोः परस्परं युद्धं | जातं. कुमारप्रहारैः पीडितांगः सोऽदृश्यीबभूव ततो निर्भयः कुमारस्तेन नरेण सार्द्धं नृपमंदिरे गतः
तदा तत्र स्थिताः पांचालिका उत्थाय कुमारस्य भक्तिमकुर्वन्. एका अंगारे जलं भृत्वा समागता, द्वितीया चागत्य कुमारस्य चरणौ क्षालयामास तृतीययोक्तं 'भो कुमार त्वं विधिना शीघ्रं स्नानं कुरु ?' चतुर्थ्योक्तं 'त्वमेतानि पुष्पाणि गृहीत्वा जिनेंद्रपूजां कुरु ?' पंचम्योक्तं 'भो कुमार त्वमेतद्दिव्यभोजनं भुंक्ष्त्र ? दिव्याभरणैश्च निजशरीरं शृंगारय ?' ततः कुमारेणापि पुत्तलिकोक्तं तत्सर्वं कृत.
अथालंकृतशरीरो विस्मितोऽसौ यावत्तिष्टति, तावदेकं देवमग्रे स्थितं स ददर्श देवेनोक्तं ' भो कुमार त्वं वरं वृणु अहं तवोपरि तुष्टोऽस्मि.' कुमारेणोक्तं 'भो देव ! इदं नगरं शून्यं कथं जातं ?' देवोऽवादीत् 'भो कुमार शृणु ? कनकपुरनामेदं नगरमस्ति, अत्र च कनकरथ्राभिधो राजाऽभूत, तस्य च सुदत्तनामा पुरोहितोऽभूत् परं स नगरवासिलोकानामुद्वेगकारको जातः, इत एकेन नरेणागत्य स राजा विज्ञप्त; 'हे राजन् तव पुरोहितो नित्यमेव परस्त्रीगमनं करोति' तव श्रत्वा स्टो
नंदिनीप्रिय चरित्रम् ॥
॥२६३॥