________________
श्रीवर्द्धमान जिनदेशना ॥२४३॥
श्रेष्ठिन् एष बालोऽनाथ एकाक्येवात्र समागतोऽस्ति, गोपालेन च पुत्रीकृत्य पालितोऽस्ति तत् श्रुत्वा सार्थवाहचितयति ध्रुवं स एवायं 'बालोऽस्ति' ततोऽसौ मनसि किंचिद्विचार्यैकं लेखं दामनकाय दत्वा प्राह, भो भद्वैतल्लेखं गृहीत्वा मम गृहे गत्वा मम पुत्राय समर्पय ? दामनकोऽपि तस्य लेखं गृहीत्वा क्रमेण राजगृहसमीपे समागतः श्रांतचैकस्मिन् देवकुले सुष्वाप तदा तत्र देवपूजार्थं तस्य सागरपोतश्रेष्ठिनो विषाभिधा पुत्री समायाता देवं पूजयित्वा पश्चाद्वलिता तं दामनकं सुप्तं ददर्श. तस्य मस्तके च स्वपितृसत्कं लेखं दृष्ट्वा निष्कास्य वाचयामास तद्यथा - भो पुत्र लेखं वाचयित्वास्य कुमारस्य त्वया विषं देयं.
अथ तया कन्यया चिंतितं 'हा हा मम पित्रा चांडालकर्म किमेतदारब्धं ? अस्य विषदानमयुक्तमेव केवलं विषाया एव दानं युक्तं इति विचित्य पकारोपरिस्थं बिंदू दूरीकृत्याने आकारौ सादात् तथा च ' विषा देया' इति कृत्वा लेख संवेष्टय पुनस्तस्य मस्तके संस्थाप्य गृहे समागता.
अथ जागरितो दामनकः सागरपोतश्रेष्ठिनो गृहे समागत्य तत्पुत्राय लेखं समर्पयामास. सोऽपि लेख वाचयित्वा तं योग्यं वरं विज्ञाय तत्पुण्ययोगेन तस्मिन्नेव दिने शुभलग्नं विज्ञाय निजभगिन्या विषया सह तस्य पाणिग्रहणं चकार. इतो गृहे समागतः सागरपोतश्रेष्ठी दामनकं निजपुत्र्या सह विवाहितं दष्ट्वा वज्राहत इव बभूव चिंतयामास च ही ही मयान्यदेव चिंतितं विधिना त्वन्यथैव कृतं तथाप्युपायेनैनं मारयिष्यामीतिध्यात्वात्मीयसेवकाना कार्य स इत्युवाच भो सुभटा एष मम जामाता भवद्भिः किंचिच्छलं लब्ध्वा मारणीयः, तेऽपि तथेति प्रतिपद्य तस्य वधार्थं छलं व्यलोकंत. परं तस्य पुण्य -
सद्दालपुत्र चरित्रम् ॥
॥२४३॥