________________
श्रीवर्तमान जिन देशना ॥२४२।।
सद्दालपुत्र चरित्रम् ॥
三遊聯強強聯遊验離柴柴聯张晓潍柴聯聯號藥華藥验验聯染染藥
स दामनक एव जीवनासीत्, ततोऽसौ बालो निजगृहानिःसृत्य सागरपोतश्रेष्ठिनो गृहे गतः, तेन श्रेष्ठिनापि च स स्वगृहे रक्षितस्तत्र च स सुखेन तिष्ठति.
अन्यदा तस्य श्रेष्ठिनो गृहे साधुयुग्मं भिक्षार्थ समागतं, तयोरेको वृद्धसाधुस्तं वालं दृष्ट्वा लघुसाधवे कथयामास 'नूनमसौ बालोऽस्य गृहस्य स्वामी भविष्यति. तन्मुनिवचनं श्रेष्ठिना श्रुतं, तदा स विषण्णश्चिन्तयति अरे! मम गुणवति विद्यावति च पुत्रे सत्यपि अयमन्यकुलोद्भवो मे गृहस्वामी कथं भविष्यति ? चेदसौ मद्गृहस्वामी जातस्तदा मम विशालं कुलं नष्टमेव ज्ञेयं. ततः केनाप्युपायेनैनं बालमहं मारयामीति' ध्यात्वा श्रेष्ठी तं बालं मारणार्थ चांडालाय समर्पयामास. चांडालोऽपि तं बाल दूरे नीत्वा सुलक्षणं प्रसन्नरूपं च विज्ञाय दयया चिंतयति 'अहोऽनेन मुग्धेन बालेनास्य श्रेष्ठिनः किं वि. नाशितं यदेनं स मारयति ! घिधिग् तं निर्दयं श्रेष्ठिन, अहमेनं न मारयामीति' ध्यात्वा स तस्यैकां कनिष्ठांगुलिं छित्वा तेमप्रत्यवादीत 'हे बाल त्वमितः स्थानाद् द्रुतं त्याहि ! चेत्पश्चादागमिष्यसि तदा त्वां जीवादप्यहं मारयिष्यामि'
तत् श्रुत्वा स बालो भीतः सन् पलायितः वनमध्ये गच्छंतं तमेको गोपालो दृष्टात्मीयपार्श्व समाकार्योवाच भो बाल त्वं मा भैषीरित्याश्वास्य स तं निजपाचे स्थापितवान्.' ___अथ तस्य गोपालस्य गृहे स बालः सुखेन तिष्ठति गावश्च चारयति. एवं क्रमेण स यौवनं प्राप्य सकलगोकुलवासिलाकानां वल्लभो जातः अथैकदा स सागरपोतश्रेष्ठी गोकुलविलोकनार्थ तत्र समागतो दामनकं दृष्ट्वा विस्मितो जातोऽचिंतयत् कोऽसौ सुरोपमरुपधारी ? ततः श्रेष्ठी गोकुलवासिजनानपृच्छत् क एप बालः? कस्य च स पुत्रोऽस्ति ! तैरुक्तं भो
第染染弗张张黎张张张张张紧密密带際张张张张泰泰张昭张张
॥२४२॥